अद्यास्य भित्तिषु मया निशि पाटितासु
च्छेदात् समासु सकृदपिंतकाकलीषु ।
काय विषाविमुखः प्रतवंशवग
दोषांश्च मे वदतु कर्मसु कौशलं च ॥ १० ॥
नमः खरपटाय । नमो रात्रिगोचरेभ्यो देवेभ्यः । (तथा करोति ।) हन्त अवसितं कर्म । प्रविशामस्तावत् । (प्रविश्य) अये ! चलति द्वीपः। अपसरामि तावत् । धिक् , सज्जलकः खल्वहम् ।
मार्जारः प्लवने वृकोऽपसरणे श्येनो गृहालोकने
निद्रा सुप्तमनुष्यवीर्यतुलने संसर्पणे पन्नगः।
माया वर्णशरीरभेदकरणे वाग् देशभाषान्तरे
दीपो रात्रिषु सङ्कटे चुं तिमिरं वायुः स्थले नौर्जले ॥ ११ ॥
(सर्वतो विलोक्य) आगन्तुकत्याविदितसमृद्धिविस्तरः केवलं भवनप्रत्ययादिह प्रविष्टोऽस्मि । न चेदानीं कश्चित् परिच्छदविशेषं पश्यामि । किनृखलु दरिद्र एवायम् । उताहो अयं संयमन निरर्थकं भूष्यं धारयति । अथवा , अभिजातोऽयं भवनविन्यासः उपभुक्तप्रनष्टविभवेनानेन भवितव्यम्। <poem> तथाविभवमन्दोऽपि जन्मभूमिव्यपेक्षया । ग्रहं विक्रयकालेऽपि "नीलस्नेहेन रक्षति ॥ १२ ॥
१. 'श्मम', २. ‘षु, ३. ‘न गृहस्थानुरूपं क, ४. ‘हो सं', ', त्रयं 'क्ष' ख. पाठः.
- नील्या रजकद्रव्येश इव महो नीलनेहः । नेह इत्यर्थः । नीलीरागो रक्तो नीलः । स वन्नादावारूढो नापैति । तद्वदनपयः स्नेहो नीलनेह इह। । ‘नीलीरग. स्थिरप्रेमा’ इति च यादवः।