भवतु पश्यामस्तावत् । अथवा , न खलु मे तुल्यावस्थः कुलपुत्रः पीडयितव्यः । गच्छामि तावत् ।
विदूषकः --- (क) भो ! गह्न एवं सुवण्णभण्डअं ।
सज्जलकः-कथं सुवर्णभाण्डमित्याह । किं मां दृष्ट्वाभिभाषते । आहोस्वित् सत्त्वलाघवात् स्वप्नायते । भवतु पश्या. मस्तावत् । (दृष्ट्वा) भूतार्थ सुप्त एवायम् । तथाहि ,
निःश्वासोऽस्य न शङ्कितो न विषमस्तुल्यान्तरं जायते
गात्रं सन्धिषु दीर्घतामुपगतं शय्याप्रमाणाधिकम् ।
दृष्टिाढनिमीलिता न चपलं पक्ष्मान्तरं जायते
दीपं चैव न मर्षयेदभिमुखः स्यालक्षसुप्तो यदि ॥ १३ ॥
कनुखलु तत् । अये जर्जरप्रावरणैकदेशे दीपप्रभाव्यक्तीकृतरूपं दृश्यते । सुपरिगृहीतमनेन । अयमत्र प्राप्तकालः । इमे मया गृहीताः शलभाः। दीपनिर्वापणार्थमेकं मुञ्चामि । (भ्रमरकरण्डकादेकं मुञ्चति ।) अये एप दीपं निर्वाप्य पतति ।
विदूषकः- (ख) अविहा णिव्याविदो दीवो दाणिं । मुसिदो मि। भो चारुदत्त ! गहू, एदं सुवण्णालङ्कारं । अहं खु भीदीए
(क) भोः गृहाणतत् सुवर्णभाण्डकम् ।
(ख) अविहा निर्वापितो दीप इदानीम् । मुपितोऽस्मि । भोश्चारुदत्त! गृहाणेमं
१. 'मि ताव', २. क्षा ३. 'ख' स्त्र ४. ' तावत्' ५. 'भवव्य' ६. दं मु' क, पाठः.