पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
तृतीयोऽङ्कः ।

 चेटी--- (क) भट्टिदारअ! अह्माणं रुक्खवाडिआपक्खदुवारे सन्धि छिन्दिअ चोरो पविठ्ठो ।

 नायकः-- किं चोरः प्रविष्टः ।

 विदूषकः -- (स्व) भो बअस्स ! सव्वहा तुवं भणासि,मुक्खो मेत्तेओ अपण्डिदो मेत्तेओ त्ति। णं मए सोभणं किदं तं सुवण्णभण्डअं तब हत्थे समप्पअन्तेण ।

 नायकः-किं भवता दत्तम् ।

 विदूषकः - (ग) अहई।

 नायकः - कस्यां बेलायाम् ।

 विदूषकः --- (घ) अद्धरत्ते।

 नायकः --- किमर्धरात्रे । बाढं दत्तम् ।

 विदूषकः -- (ङ) भो चारुदत्त ! जं वेळं पडिबुद्धो आसि,तेस्सिं वेळाअं खु दिण्णं ।


 (क) भर्तृदारकः अस्माकं वृक्षवाटिकापक्षद्वारे सन्धि छित्त्वा चोरः प्रविष्टः ।

 (ख) भो वयस्य ! सर्वथा त्वं भणसि, मो मैत्रेयोऽपण्डितो मैत्रेय इति । ननु मया शोभनं कृतं तत् सुवर्णभाण्डकं तव हस्ते समर्पयता।

 (ग) अथकिम् ।

 (घ) अर्धरात्रे ।

 (ङ) भोश्चारुदत्त! यस्यां वेलायां प्रतिबुद्ध आसीः, तस्यां वेलायां खलु दत्तम् ।


 १. 'अं भवदो 'स' क. पाठ:. २. 'तं वेळं खु' ख. पाठः.