चेटी- (क) कुसळी भट्टिदारओ अय्यमेत्तेओ अ । जो तस्स जणस्स अलङ्कारो चोरेण गहीदो ।
ब्राह्मणी--- (ख) किं भणासि चोरेण गहीदत्ति ।
चेटी--(ग) अहई।
ब्राह्मणी- (घ) किंणुखु तस्स जणस्स दादव्वं भविस्सदि। अहव एदं दइस्सं । (कर्णी स्पृष्ट्वा) हद्धि ताळीपत्तं खु एवं । सो दाणि परिअओ मं विळम्बेदि। किं दाणि करिस्सं । (विचिन्त्य) भोदु, दिटुं । मम आदिकुलादो छडा सदसहरसमुळ्ळा मुत्तावळी । तं पि अय्यउत्तो सोढीरदाए पडिच्छदि । भोदु, एवं दाव करिस्सं । (निष्क्रान्ता ।)
विदूषकः- (ङ) इमस्स अन्धआरुप्पादिदस्स अवराहस्स. किदे भवन्तं सीसेण पसादेमि । दाणिं मे हत्थे पडिच्छदु अत्तभवं।
(क) कुशली भर्तृदारक आर्यमैत्रेयश्च । अम्तस्य जनस्यालङ्कारश्चोरेण गृहीतः ।
(ख) किं भणसि चोरेण गृहीत इति ।
(ग) अथकिम् ।
(घ) किन्नुखलु तस्मै जनाय दातव्यं भविष्यति । अथर्वतद् दास्यामि । हा धिक् तालीपत्रं खल्वेतत् । स इदानीं परिचयो मां विडम्बयति । किमिदानीं कारप्यामि । भवतु, दृष्टम् । मम ज्ञातिकुलाद् लब्बा शतसहस्रमूल्या मुक्तावली । तामप्यार्यपुत्रः शौटीरतया प्रतीच्छति । भवतु , एवं तावत् करिष्यामि ।
(ङ) अस्यान्धकारोत्पादितस्यापराधस्य कृते भवन्तं शीर्षेण प्रसादयामि । इदानीं मे हस्ते प्रयच्छत्वत्रभवान् ।