पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
चारुदत्ते

 नायकः - किं भवानिदानी मां बाधते।

  भवांस्तावदविश्वासी शीलज्ञो मम नित्यशः ।
  किं पुनः स कलाजीवी वञ्चनापण्डितो जनः ॥ १६ ॥

 विदूषकः- (क) मण्णे मए मन्दभग्गेण कुम्भीळस्स हत्थे दिण्णं । (विषण्णस्तिष्ठति ।)

(प्रविश्य)

 ब्राह्मणी- (ख) रदणिए! अय्यमेत्तेअं सदावेहि ।

 चेटी- (ग) अय्यमेत्तेअ! भट्टिदारिआ तुम सदावेदि।

 विदूषकः -- (घ) भोदि! किं मं ।

 चेटी- (ङ) आम।

 विदूषकः -- (च) एस आअच्छामि । (उपसर्पति ।)

 ब्राह्मणी - (छ) अय्यमेत्तेअ ! इमं पडिग्गहं पडिगह्न ।


 (क) मन्ये मया मन्दभाग्येन कुम्भीलम्य हस्ते दत्तम् ।

 (ख) रदनिके! आर्यमैत्रेयं शब्दापय ।

 (ग) आर्यमैत्रेय! भर्तृदारिका त्वां शब्दापयति ।

 (घ) भवति! किं माम् ।

 (ङ) आम ।

 (च) एप आगच्छामि ।

 (छ) आयमैत्रेय! इमं प्रतिग्रहं प्रतिगृहाण ।


 १. 'व' ख, पाठः.