पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
चारुदत्ते

भविस्सदि त्ति एदण्णिमित्तं भट्टिदारओ सन्तप्पदि त्ति भट्टिदारिआ तव हत्थे दइअ अय्यउत्तं अणिरिणं करिस्सामि त्ति एवं करेदि । ता गह्न एदं।

 ब्राह्मणी--(क) उदअसम्भवदाए मुत्तावळीए तव अ दुकळहदाए उवआरो विस्सरिदो । गह्न एदं । (ददाति)

 विदूषकः--- (गृहीत्वा ) (ख) सव्वं दाव चिट्ठदु । रोदिदी विअ होदीए दिट्ठी।

 ब्राह्मणी --- (ग) देवउळधूमेण रोदाविदा ।

 विदूषकः- (घ) साविदासि तत्तहोदा चारुदत्तेण , जइ अळिअं भणासि ।

 ब्राह्मणी- (ङ) हदि । (निष्क्रान्ता ।)

 विदूषकः --- (च) एसा वाआए दुक्खं रक्खिअ अस्सूहि सूइअ गआ। (उपगम्य) भो! इदं ।


 संतप्यत इति भर्तृदारिका तब हस्ते दत्त्वार्यपुत्रमनृणं करिप्यामीत्येवं करोति । तद् गृहाणेतत् ।

 (क) उदकसम्भवतया मुक्तावल्यास्तव च दुर्लभतयोपचारो विस्मृतः । गृहागैतत् ।

 (ख) सर्वं तावत् तिष्ठतु । रोदितीव भवत्या दृष्टिः ।

 (ग) देवकुलधूमेन रोदिता ।

 (घ) शापितासि तत्रभवता चारुदत्तेन, यद्यलीकं भणसि ।

 (ङ) हा धिक् ।

 (च) एषा वाचा दुःखं रक्षित्वाश्रुभिः सूचयित्वा गता । भोः! इदम् ।