नायकः-- किमेतत्।
विदूषकः- (क) सरिसकुळदारसङ्गहस्स फळं ।
नायकः-किं ब्राह्मणी मामनुकम्पते।
विदूषकः-(ख) एवं विअ।
नायकः-- धिगात्मानम् । अद्य हतोऽस्मि ।
मयि द्रव्यक्षयक्षीणे स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ १७ ॥
विदूषकः-- (ग) तत्तहोदी हिअएण तुमं याचेदि । अहं सीसेण यांचेमि । गह्न एदं।
नायकः--तथा। (गृहीत्वा) वयस्य ! इमां मुक्तावली गृहीत्वा वसन्तसेनायाः सकाशं गच्छ ।
अर्थेषु काममुपलभ्य मनोरथो मे ।
स्त्रीणां धनेष्वनुचितं प्रणयं करोति ।
माने च कार्यकरणे च विलम्बमानो
धिग् भोः ! कुलं च पुरुषस्य दरिद्रतां च ॥ १८ ॥
विदूषकः- (घ) अहो अप्पमुळ्ळस्सै सुवण्णभण्डअस्स किदे
सदसहस्समुळ्ळा मुत्तावळी णीआइदव्या ।
(क) सदृशकुलदारसंग्रहस्य फलम् ।
(ख) एवमिव ।
(ग) तत्रभवती हृदयेन त्वां याचते । अहं शीर्षण याचे । गृहाणैतत् ।
(घ) अहो अल्पमूल्यस्य सुवर्णभाण्डकस्य कृते शतसहस्रमूल्या मुक्तावली निर्यातयितव्या ।
१. 'आएमि', २. 'भो! अहो', ३. 'स्स कि', ४. 'णिय्याद' ख. पाठः.