(ततः प्रविशति सोत्कण्ठा वसन्तसेना, चित्रफलकामादाय वर्तिकाकरण्डहस्ता चेटी च।)
गणिका - (क) हङ्गे ! पेक्खसि सरिसी तस्स जणस्स ।
चेटी- (ख) अज्जुए! तस्सिं हथिविमदकोळाहळे बहुमाणपय्यत्थाए दिट्ठीए दूरदो दिट्ठो सो भट्टिदारओ ईदिसो एव्व।
गणिका- (ग) तुमं दाव दक्खो वेसवासजणो त्ति जणवादं पूरअन्ती अळिअं भणासि ।
चेटी--(घ) किं एदं वेसवासजणो सव्वो दक्खिणो होइ त्ति। पेक्खदु अज्जुआ चम्पआरामे पिचुमन्दा जाअन्ति। अदिसरिस त्ति मम हिअअं अहिरमदि । परमत्थदो एब्ब पसंसीअदि णं कामदेवो ।
(क) हङ्गे ! पश्यसि सदृशी तस्य जनस्य ।
(ख) अज्जुके! तस्मिन् हस्तिविमर्दकोलाहले बहुमानपर्यस्तया दृष्ट्या दूरतो दृष्टः स भर्तृदारक ईदृश एव ।
(ग) त्वं तावद् दक्षो वेशवासजन इति जनवादं पूरयन्त्यलीकं भणसि ।
(घ) किमेतद् वेशवासजनः सर्वो दक्षिणो भवतीति । पश्यत्वज्जुका चम्पकारामे पिचुमन्दा जायन्ते । अतिसदृश इति मम हृदयमभिरमते । परमार्थत एव प्रशस्यते ननु कामदेवः ।
१. 'तिव', '२. 'सरिसो तस्स अय्यस्स' क. पाठः.