पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
चतुर्थोऽशः।

(ततः प्रविशति सज्जलकः ।)

 सज्जलकः

 कृत्वा निशयां वक्षनीयदोषं
  निद्रां च हित्वा तिमिरं भयं च ।
 स एव सूर्योदयमन्दवीर्यः
  शनैर्दिवा चन्द्र इवास्मि भीतः ॥ १ ॥

दिष्ट्या कर्मान्ते प्रभातम् । यावदिदानीं वसन्तसेनायाः परिचारिकाया मदनिकाया निष्क्रयार्थं मयेदं कृतम् । (परिक्रम्य) इदं वसन्तसेनाया गृहम् । यावत् प्रविशामि । (प्रविश्य) किन्नुखल्वभ्यन्तरस्था मदनिका । अथवा, पूर्वाहे गणिकानामभ्यन्तरे सान्निध्यम् । अतस्तत्रैव तया भवितव्यम् । यावच्छब्दापयामि । मदनिके! मदनिके ! ।

 चेटी – (आकर्त्य) (क) सज्जळअस्स विअ सरो। वावुदा अज्जुआ । ता उवलप्पिरसं । (उपगम्य) इअह्मि ।

 सज्जलकः-इतस्तावत् । चेटी--(ख) किं तुवं सङ्किदवण्णो विअ ।। सज्जलकः--न खलु, किञ्चित् कथयितुकामः ।


 (क) सजलकस्येव स्वरः । व्याप्ताज्जुका । तदुपसर्पिष्यामि । इयमास्म ।

 (ख) किं त्वं शङ्कितवर्ण इव ।


 १, ‘मन्दः ॥', २. "रो। अप्पा ' , पाठः,