पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
चतुर्थोऽङ्क:।

 गणिका - (क) हङ्गे ! इमं चित्तफळअं सअणीए द्वावेहि । (विलोक्य) कहिं गआ हदासा । अहव अदूरगआए होदव्वं । जाव णं पेक्खिस्सं । (परिक्रम्यावलोक्य) अम्मो इअं सा अदिसिणिडाए दिट्ठीए केण वि मणुस्सेण पिबन्ती विअ सह मन्तअन्ती चिट्ठइ । तक्केमि एसो जो को विकएण मं याचेदि ।

 सज्जलकः-श्रूयतां रहस्यम् ।

 गणिका --- (ख) अजुत्तं पररहस्सं सोएं, अहं गमिस्सं ।

 सज्जलकः - अपि वसन्तसेना (इत्योक्ते)

 गणिका - (ग) अहं अहिईदा एदाअं कहाअं। होदु, सुणिस्सं दावे भविस्सदि । (पुनः प्रतिनिवृत्य स्थिता । )

 सज्जलकः-- किं दास्यति त्वां निष्क्रयेण ।

 गणिका-(घ) सो एव्व एसो । होदु, सुणिसं ।


 (क) हले! इदं चित्रफलकं शयनीये स्थापय । कुत्र गता हताशा । अथवा अदूरगतया भवितव्यम् । यावदनां प्रेक्षिष्ये । अम्मो इयं सातिस्निग्धया दृष्टया केनापि मनुष्येण पिबन्तीव सह मन्त्रयमाणा तिष्ठति । तर्कयाम्येष यःकोऽपि क्रयेण मां याचते।

 (ख) अयुक्तं पररहस्यं श्रोतुम् , अहं गमिष्यामि ।

 (ग) अहमधिकृतैतस्यां कथायाम् । भवतु, श्रोष्यामि तावद् भविष्यति ।

 (घ) स एवैषः । भवतु, श्रोष्यामि ।


 १. 'अ', २. 'णि' ख. पाठः.