पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
चारुदत्ते

 चेटी- (क) सज्जळअ ! ममप्पदाणं पुढमं एवं अज्जुआए उत्तं ।

 सज्जलकः---तेन हीममस्यै प्रयच्छ, एवं वक्तव्या च--

  अयं तव शरीरस्य प्रमाणादिव निर्मितः।
  अप्रकाश्यो ह्यलङ्कारो मत्स्नेहाद् धार्यतामिति ॥२॥

 चेटी- (ख) पेक्खामि दाव। .

 सज्जलकः-- गृह्यताम् । (दर्शयति ।)

 चेटी--- (ग) दिट्ठपुरुवो विअ अअं अलङ्कारो।

 गणिका ---(घ) ममकेरओ विअ अ अलङ्कारो ।

 चेटी-(ङ) भणाहि भणाहि । को इमस्स आअमो।

 सज्जलकः - त्वत्स्नेहात् साहसं कृतम् ।

 उभे---- (च) हं , साहसिओ।

 चेटी-(आत्मगतम् ) (छ) आ, अज्जुआए खु इमस्स आ-


 (क) सज्जलक! मम प्रदानं प्रथममेवाज्जुकयोक्तम् ।

 (ख) पश्यामि तावत् ।

 (ग) दृष्टपूर्व इवायमलङ्कारः।

 (घ) मदीय इवायमलङ्कारः।

 (ङ) भण भण | कोऽस्यागमः ।

 (च) हं, साहसिकः ।

 (छ) आ, अज्जुकायाः खल्वस्याकृतिः कर्मदारुणतयोद्वेजनीया संवृत्ता । हा


 १. ', २. 'ग' ख. पाट..