पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
चतुर्थोऽङ्क:।

इदी कम्मदारुणदाए उब्वेअणीआ संवुत्ता । (प्रकाशम् ) हद्धि मम किदे उभअं संसइदं संवृत्तं- तव सरीरं चारित्तं च ।

 सज्जलकः- उन्मत्तिके ! साहसे खलु श्रीर्वसति ।

 चेटी- (क) अपण्डिदो खु सि । को हि णाम जीविदेण सरीरं विक्कीणिस्सदि।अह कस्स गेहे इअं विस्सासवञ्चणा किदा।

 सज्जलकः-- यथा प्रभाते मया श्रुतं - श्रेष्ठिचत्वरे प्रतिवसति सार्थवाहपुत्रश्चारुदत्तो नाम ।

 उभे-हुं।

 सज्जलकः-- अयि,

  विषादस्रस्तसर्वाङ्गी सम्भ्रमोत्फुल्ललोचना ।
  मृगीव शरविडाङ्गी कम्पसे चानुकम्पसे ॥३॥

 चेटी- (ख) सच्च भणाहि । सत्यवाहकुळे साहसं करन्तेण तुए कोच्चि कुळवुत्तो सत्येण अस्थि परिक्खदो वावादिदो वा।


धिग् मम कृते उभयं संशयितं संवृत्तं -- तव शरीरं चारित्रं च ।

 (क) अपण्डितः खल्वसि । को हि नाम जीवितेन शरीरं विशेष्यति । अथ कस्य गेहे इयं विश्वासवञ्चना कृता ।

 (ख) सत्यं भण । सार्थवाहकुले साहसं कुर्वता त्वया कश्चित् कुलपुत्रः शस्त्रे णास्ति परिक्षतो व्यापादितो वा ।


 १. 'दुजण्णो खु' क. पाठ:. २. 'हं', ३. 'दिग्धाशी', ४. 'व्वं' ख. पाठः.