पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
चारुदत्ते

 गणिका - (क) सुडु, मए वि पुच्छिदव्वं एदाए पुच्छिदं ।

 सज्जलकः - मदनिके! एतावत् किं न पर्याप्तं, द्वितीयमप्यकार्य करिष्यामि । न खल्वत्र शस्त्रेण कश्चित् परिक्षतो व्यापादितो वा।

 चेटी- (ख) सज्जळअ ! सच्चं ।

 सज्जलकः--सत्यम् ।

 चेटी- (ग) साहु सज्जळअ ! पिअं मे ।

 सज्जलकः - किं किं प्रियमित्याह । ईदृशं मदनिके!

 त्वत्स्नेहबद्धहदयो हि करोम्यकार्य
  सन्तुष्टपूर्वपुरुषेऽपि कुले प्रसूतः।
 रक्षामि मन्मथगृहीतमिदं शरीरं
  मित्रं च मां व्यपदिशस्यपरं च यासि ॥ ४ ॥

 चेटी-(घ) सज्जळअ! सुणाहि । अज्जुआए अअं अळङ्कारो । (कणे) एवं विअ।

 सज्जलकः- एवम् ।


 (क) सुष्टु, मयापि प्रष्टव्यमेतया पृष्टम् ।

 (ख) सज्जलक! सत्यम् ।

 (ग) साधु सज्जलक! प्रियं मे ।

 (घ) सज्जलक! शृणु । अज्जुकाया अयमलङ्कारः । एवमिव ।


 १. वि अपु', २. 'लु तत्र' ख. पाठः.