अज्ञानाद् या मया पूर्व शाखा पत्रैर्वियोजिता।
छायार्थी ग्रीष्मसन्तप्तस्तामेव पुनराश्रितः ॥ ५ ॥
गणिका- (क) सन्तप्पदि त्ति तक्केमि एदेण अकय्यं किदं त्ति। .
सज्जलकः-- मदनिके ! एवं गते किं कर्तव्यम् ।
चेटी- (ख) तहिं एव णिय्यादेहि, णहि मण्डइस्सदि अज्जुआ।
सज्जलकः - अथेदानीं सोऽमर्षान्मां चोर इति रक्षिपुरुपैाहयिष्यति चेदन किं करिष्यामि ।
चेटी- (ग) मा भाआहि भाआहि । कुळवुत्तो खु सो गुणाणं परितुस्सदि।
गणिका-(घ) साहु भद्दे! अवत्तव्वासि अळङ्किदा विअ एदेण वअणेण ।
सज्जलकः-सर्वथा न शक्ष्याम्यहं तत्र गन्तुम् ।
चेटी--अअं अण्णो उवाओ।
(क) संतप्यत इति तर्कयामि एतेनाकार्यं कृतमिति ।
(ख) तत्रैव निर्यातय, नहि मण्डयिष्यत्यज्जुका ।
(ग) मा बिभीहि बिभीहि । कुलपुत्रः खलु स गुणानां परितुप्यति ।
(घ) साधु भद्रे! अवक्तव्यास्यलङ्कृतेवैतेन वचनेन ।
(ङ) अयमन्य उपायः ।
१. सिक. पाठः.