पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
चारुदत्ते

 गणिका- (क) एदे गुणा वेसवासस्स ।

 सज्जलकः--कोऽन्य उपायः।

 चेटी- (ख) णं तव रूवञ्जा अज्जुआ अवि सत्थवाहपुत्तो ।

 सज्जलकः-- न खलु।

 चेटी- (ग) तेण हि इमं दाव अलङ्कारं तस्स सत्थवाहपुत्तस्सवअणादो अज्जुआए णिय्यादेहि । एवं च किदे तुवं रक्खिदो, सो अय्यो अ अणिविण्णो भविस्सदि । अहं चे पीडिदा ण भविस्सं । आदु अज्जुअं च पुणो वञ्चिअ पुणो एव्व दासभावो भवे ।

 सज्जलकः- मदनिके ! प्रीतोऽस्मि ।

 गणिका- (घ) भोदु अब्भन्तरं पविसिअ उवविसामि ।

(तथा करोति ।)


 (क) एते गुणा वेशवासस्य ।

 (ख) ननु तव रूपज्ञाज्जुकापि सार्थवाहपुत्रश्च ।

 (ग) तेन हीमं तावदलङ्कारं तस्य सार्थवाहपुत्रस्य वचनादज्जुकायै निर्यातय । एवं च कृते त्वं रक्षितः, स आर्यश्वानिर्विण्णो भविष्यति । अहं च पीडिता न भविष्यामि । अथवा अज्जुकां च पुनर्वञ्चयित्वा पुनरेव दासभावो भवेत् ।

 (घ) भवत्वभ्यन्तरं प्रविश्योपविशामि ।


 १. 'सस्स', २. 'च अपीडिदा भविस्सामि । ' ख. पाठ:. ३. 'च णो' क. पाठः.