पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
चारुदत्ते

 चेटी- (क) एसा अज्जुआ । उक्सप्पदु अय्यो।

 विदूषकः-- (उपगम्य) (ख) सोत्थि होदीए।

 गणिका - (ग) साअदं अय्यस्स । ह ! आसणं अय्यरस पादोदकं च ।

 विदूषकः- (आत्मगतम् ) (घ) सव्वं आणेदु वजिअ भोअणं।

 चेटी-(ङ) जं अज्जुआ आणवेदि। (आसनं ददाति पादोदकं च।) उवविसदु अय्यो।

 विदूषकः--- (उपविश्य) (च) पडिच्छदु आसणं भोदी। अहं किञ्चि भणिदुं आअदो।

 गणिका --- (उपविश्य) (छ) अवहिदह्मि ।

 विषकः-- (ज) केत्तिअमत्तं खु तस्स अलङ्कारस्स मुळ्ळप्पमाणं।


 (क) एषाज्जुका । उपसर्पत्वार्यः ।

 (ख) स्वस्ति भवत्यै ।

 (ग) स्वागतमार्यस्य । हजे! आसनमार्यस्य पादोदकं च ।

 (घ) सर्वमानयतु वर्जयित्वा भोजनम् ।

 (ङ) यदज्जुकाज्ञापयति । उपविशत्वार्यः ।

 (च) प्रतीच्छत्वासनं भवती । अहं किञ्चिद् भणितुमागतः ।

 (छ) अवहितास्मि ।

 (ज) कियन्मात्रं खलु तस्यालङ्कारस्य मूल्यप्रमाणम् ।