पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
चतुर्थोऽङ्क:।

 गणिका ---- (क) किंणिम्मित्तं खु अय्यो पुच्छदि ।

 विदूषकः --- (ख) सुणादु भोदी । तत्तहोदो चारुदत्तस्स गुणप्पञ्चाअणणिमित्तं खु तुए अलङ्कारो तहिं णिक्खित्तो । सो तेण जूदे हारिदो।

 गणिका-- (ग) जूदे । जुज्जइ । तदो तदो ।

 विदूषकः- (घ) तदो तस्स अलङ्कारस्स मुळ्ळभूदं इमं मुत्तावळि पडिच्छदु भोढ़ी।

 गणिका-- (आत्मगतम् ) (ङ) धिक् खु गणिआभावं । लुद्धत्ति मं तुळअदि । जई ण पडिच्छे , सो एव्व दोसो भविस्सदि । (प्रकाशम् ) आणेदु अय्यो।

 विदूषकः -- (च) इदं गह्नदु भोदी ।

 गणिका--(गृहीत्वा) (छ) पडिच्छिदं तए त्ति अय्यो णिवेददु।


 (क) किन्निमित्तं खल्वार्यः पृच्छति ।

 (ख) शृणोतु भवती । तत्रभवतश्चारुदत्तस्य गुणप्रत्यायननिमित्तं खलु त्वयालङ्कारस्तस्मिन् निक्षिप्तः । स तेन छूते हारितः ।

 (ग) द्यूते । युज्यते। ततस्ततः ।

 (घ) ततम्तम्यालङ्कारस्य मूल्यभूतामिमां मुक्तावली प्रतीच्छतु भवती ।

 (ङ) धिक् खलु गणिकाभावम् । लुब्धेति मां तुलयति । यदि न प्रतीच्छामि, स एव दापो भविष्यति । आनयत्वार्यः ।

 (च) इदं गृह्णातु भवती ।

 (छ) प्रतीष्टं तयेत्यायों निवेदयतु ।


 १. 'मणि', २. सिक्ख ग', ३. 'इप' ख. पाठः.