पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
चारुदत्ते

 विदूषकः -- (आत्मगतम् ) (क) को वि उवआरो विणे एदाए भणिदो । (प्रकाशम् ।) एवं होदु । (दत्त्वा निष्क्रान्तः ।)

 गणिका--(ख) साहु चारुदत्त! साहु । भाअधेअपरिवुत्तदाए दसाए माणावमाणिदं रक्खिदं ।

(प्रविश्य)

 मदनिका - (ग) अज्जुए! सत्थवाहपुत्तस्स सआसादो कोच्चि मणुस्सो आअदो इच्छइ अज्जुअं पेक्खिउं ।

 गणिको- (घ) किं दिट्ठपुरुवो णवदसणो वा ।

 मदनिका - (ङ) अजुए! णहि , तस्सकेरओ त्ति मे पडिभादि।

 गणिका ---- (ज) गच्छ, पवेसेहि णं ।


 (क) कोऽप्युपचारोऽपि नैतया भणितः । एवं भवतु ।

 (ख) साधु ! चारुदत्त साधु । भागधेयपरिवृत्ततायां दशायां मानावमानितं रक्षितम् ।

 (ग) अज्जुके! सार्थवाहपुत्रस्य सकाशात् कश्चिद् मनुष्य आगत इच्छत्यज्जुकां द्रष्टुम् ।

 (घ) किं दृष्टपूर्वो नवदर्शनो वा ।

 (ङ) अज्जुके! नहि, तदीय इति में प्रतिभाति ।

 (च) गच्छ, प्रवेशयैनम् ।


 १. "अ', २. 'माणं र', ३. 'का-दि' ख. पाठः.