पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
चतुर्थोऽङ्क:।

 मदनिका ---- (क) तह । (निष्क्रान्ता ।)

 गणिका-- (ख) अहो रमणिज्जदा अज्ज दिवसस्स ।

(ततः प्रविशति मदनिका सज्जलकेन सह ।)

 सज्जलकः--कष्टा खल्वात्मशङ्का नाम,

  यः कश्चिञ्चकितगतिनिरीक्षते मां
   सम्भ्रान्तो द्रुतमुपसर्पति स्थितो वा ।
  सर्वास्तांस्तुलयति दोषतो मनो मे
   स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः ॥ ६॥

 मदनिका-- (ग) एसा अज्जुआ । उवसप्पटु अय्यो ।

 सज्जलकः- (उपमृत्य) सुखं भवत्यै ।

 गणिका ---- (घ) साअदं अय्यस्स । हजे! आसणं देदु अय्यरस ।

 सज्जलकः -- भवतु भवतु । गृहीतमासनम् । त्वरिततरमनुष्ठेयं किञ्चित् कार्यमस्ति ।


 (क) तथा ।

 (ख) अहो रमणीयताद्य दिवसस्य ।

 (ग) एषाज्जुका । उपसर्पत्वार्यः ।

 (घ) स्वागतमार्यस्य । हजे! आसनं दीयतामार्याय ।


 १. तिन्व' क. पाठः.