पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
चारुदत्ते

 गणिका - (क) एवं, भणादु अय्यो।

 सज्जलकः --- आर्यचारुदत्तेनास्मि प्रेषितः-यस्तावदलङ्कारो मम हस्ते निक्षिप्तः, स त्वसंभोगमलिनतया गृहस्यासान्निध्यात् कौडुम्बिकानां दुरारक्ष(म् :) । तद् गृह्यताम् इति।

 गणिका ---- (ख) इमं तस्स चारुदत्तस्स देदु अय्यो।

 सज्जलकः ---- भवति ! न खल्वहं गच्छामि ।

 गणिका --- (ग) अहं जाणामि तस्स गेहे साहसं करिअ आणीदो अअं अलङ्कारो । तस्स गुणाणि अणुकम्पेदु अय्यो।

 सज्जलकः --- (आत्मगतम् ) कथं विदितोऽस्म्यनया।

 गणिका -- (घ) को एत्थ , पवहणं दाव अय्यस्स ।

 मदनिका -- (ङ) णेमिसदो विअ सुणीअदि । आअदेण पवहणेण होदव्यं ।

 गणिका--(च) (स्वैराभरणेमदनिकामलङ्कृत्य) आरुहदु अय्यो अय्याए सह पवहणं ।


 (क) एवं, भणत्वार्यः ।

 (ख) इदं तम्मै चारुदत्ताय ददात्वार्यः ।

 (ग) अहं जानामि तस्य गहे साहस कृत्वानीतोऽयमलङ्कारः । तस्य गुणाननुकम्पतामायः ।

 (घ) कोऽत्र, प्रवहणं तावदार्यस्य ।

 (ङ) नेमिशब्द इव श्रूयते । आगतेन प्रवहणेन भवितव्यम् ।

 (च) आरोहत्वार्य आर्यया सह प्रवहणम् ।