११
अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदोऽर्थिनः।
अपुष्पादफलाद्वृक्शद्यथा कृष्ण विहंगमाः ॥ १३ ॥
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् ।
जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥ १४ ॥
अतोऽधुना भ्रात्रा भाग्यतो लब्धं धनराशिमाकर्णयतः कश्यपस्य कुतः परितोषः ? केवलं तीव्रो मत्सरानलस्तस्य चेतसि संधुक्षितः। तौ दंपती, अलिपर्वाणमुद्दिश्य, ईष्रोषकलुषचेतसौ बभूवतुः। यत्सत्यम्, तमेवार्थं मनसि विपरिवर्तयन्कश्यपस्तस्यां निशि क्षणमपि निद्रां नालभत ।
अन्येद्युः प्रागेव प्रभातादुत्थाय स क्रोधपरुष एव महता संरम्भेण भ्रातुर्निवेशनं प्राप । तं चानुयुयुजे-रे अलिपर्वन्, त्वं तावज्जनान्प्र- त्याययितुं प्रयतसे । यचमतीव दुर्गतः कष्टश्रितः, किं बहुना याचक निर्विशेपश्च । धनं पुनस्ते न संख्येयम्, किंतु मेयम् । एतस्मिन्नलिपर्वा प्रत्युवाच। आर्य, व्यक्तमुच्यताम् । नाहं स्वदुक्तं गृहामि ।
७. तदा कश्यपोऽब्रवीत्- मद्वचसस्वमात्मानमगृहीताथ दर्शयसि । किंतु, किमनेन वाग्व्यवहारेण ? । एप निष्क एव त्वां गृहीतार्थे विधा स्यति । एतावदुक्त्वा, भार्यादत्तं स्त्रर्णनिष्कं भ्रात्रे दर्शयित्वा कश्यपेन गदितम् । निरूप्यतामेष निष्कः । एष तस्य मानस्याभ्यन्तरे लग्नोऽभूत्, यत्त्वद्भार्यया मद्गेहिन्याः सकाशान्नीतमासीत् । तद् ब्रूहि– कियन्त ईदृशा निष्कास्त्वत्संनिधौ वर्तन्ते ।
८. एतन्निशम्यैवालिपर्वो विवेद - यत्--आत्मनो धनागमवृत्तं मा कस्यापि विदितं भवतु इति मयाभिलषितम् । तत्पुनर्मद्गृहिणीचापला- त्कश्यपेन च तज्जायया च स्फुटं विज्ञातम् -इति । किंतु ‘ जातस्याजननं