पृष्ठम्:चोरचत्वारिंशीकथा.djvu/१५

पुटमेतत् सुपुष्टितम्

१२

नास्ति " इति विचिन्त्य, विस्मयं वा विषादं वा लेशतोऽप्यना विष्कुर्वन्स भ्रात्रे बभाषे- आर्य सत्यमेतत् , यन्नाहं तथा दरिद्रो यथा । केचिन्मां गृह्णन्ति । संप्रति हि यावन्मे धनं वर्तते तावकदापि मदीयं स्यात् –इति न जातु मया संभावितपूर्वम् । तदा कश्यपेनोक्तम्स एतत्तु स्पष्टमेव । किमेतेन ज्ञातज्ञापनेन ? एतत्तु वेदितुमिच्छामि, कुतस्त्वयेदं धनमाहृतम् ? सहजेन प्रतिगदितम् अवधेहि । श्रावयामि त्वां मद्धना गमवृत्तम् ।

 ९. एवं कृतप्रस्तवोऽलिपर्वाग्रजाय वर्णयामास- वनगता चोरगुहा कीदृशी वर्तते। कथं च दैवयोगात्तेन सा दृष्टा। अब्रवीच्च-। रहस्यमेतद्रक्षितुं प्रतिजानीषे चेत्, अहं त्वामेतस्याः संपदः संविभागिनं करिष्यामि।

 १०. करयपः साटोपं प्रत्यवादीत्- अपेक्षितपूर्वमेत्र मयेदम्। एत- ववगन्तुमिच्छामि~- सा गुहा कस्मिन्वनोद्देशे वर्तते । कैश्च लक्षणै; परि- चीयते । येन यथाकाममहं तत्र गच्छेयम् । एतच्चेन्मम कथयितुं नेच्छसि, अहमेतमर्थं सपदि गत्वा नगरपालाय निवेदयिष्यामि । तथा सति न केवलं त्वं न पुनर्धनं लप्स्यसे, अपि च लब्धपूर्वमपि त्वत्त नगरपाला ज्ञया हरिष्यते । तन्मध्याच्च महतीमर्थमात्रां पारितोषिकमिति प्राप्स्यामि ।

 ११. एतद्वचनमलिपर्वणो न मनागपि भयाय बभूव । स हि सहोदरे सदैव स्निग्धवृत्तिरेवासीत् । अतोऽधुनासौ कश्यपाय न केवलं तद्गुहायाः स्थानं लक्षणानि च, अपि तु तस्या अपाचरणस्य संवरणस्य च मन्त्रौ व्याचख्यौ ।