१८
३. एतद्देवरोक्तं श्रुतमात्रं तस्याः प्रत्ययाय समाश्वासनाय च जातम् । यतो दृढं सा मेने- यथा कोशगतं वृत्तं न लेशतोऽपि स्फुटीकर्तुं, प्रत्युत सर्वात्मना रहस्यमिति रक्षितुं युज्यते । अथ गृहं प्रत्यागत्य सा निशीथं यावज्जोषं प्रतिपालयामास । किंतु निवृत्तेऽपि निशीथे कश्यपो न निवृत्तः । तदा सा भूयोऽपि भूयसा दुःखाकुला बभूव । तस्याश्च दुःखोपचये, अयमसाधारणो हेतुरासीत्, यत्तया निजशोकहेतुर्न कस्मै- चित्प्रकाश्यः । येन कियतापि तदाधिः सह्यतां यायात् ।
४. तदा सा चिन्तयामास- धिगस्तु मम चापलम् । मया हि यातुर्मानप्रयोजनस्य हेतुं जिज्ञासमानया सकलोऽयमनर्थः स्वयमेवोत्पादितः । एवं तीव्रमनुशयाना सा शय्योपरि निशाशेषं क्षपयामास । प्रभातायामेव यामिन्यां देवृनिवेशनं वव्राज । तां म्लानवदनामालोक्यैव, अलिपर्वा तद् धूश्च कश्यपमनिवृत्तं तर्कयामासतुः ।
५. अथ प्रजावत्याः प्रार्थनामप्रतीक्ष्यैव, अलिपर्वोदतिष्ठत् । खरत्रय- सहितश्च चोरावासं प्रातिष्ठत । प्रस्थितश्च भ्रातृपत्नीमुवाच- यथा-धैर्यं मा त्यज । कश्यपः खलु क्षेमेण प्रत्यायास्यति । स्वगतं तु बभाषे व्यक्तम् , भ्राता मे धनाहरणे सम्यगविचार्यैव प्रवृत्तः। नान्यथा तस्या निवर्तनं संभवति । शङ्के– प्रायेणासौ चोरैर्गृहीतः स्यात् । तथा चोक्तम्
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति ।
स शोचेद्भ्रंशमापद्य विवेकाच्च ततस्तटात् ॥ २० ॥
विवेकशीलस्य पुनरन्यदेव भागधेयम्। कविर्भारविराह
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥२१॥