२३
परमां त्वरामास्थाय त्वयैते शरीरार्धे सेवनेन संधेये । अस्मिन्निर्वर्तिते
तृतीयोऽयं निष्कस्त्वत्करगतः स्यात् ।
८. एवं तया वाचा प्रार्थितः, विशेषतश्च निष्कान्तरप्रतिश्रवणेन प्रोत्साहितः, असौ चर्मसेवी सपदि कर्मणि प्रवृत्तः। शीघ्रं च तत्समापितवान् । यथाप्रतिज्ञं च निष्कमपि लेभे । तदनु सा पुनरपि तं पटावृतनेत्रं विदधौ । तं च व्यतिकरं रहस्यमिति रक्षितुं निष्कान्तरदानपूर्वं सनिर्बन्धं तमादिदेश । अथ सा तं तत्स्थानमनयत्, यत्र पूर्वमागच्छन् वसनपिहितनयनोऽयं विहितः । अत्र सा तच्चक्षुर्भ्यां वसनमपनिनाय । येन स स्वयं गृहं निवर्तेत । आत्मना तु गृहमुद्दिश्य चलितापि स्थित्वा, स्वगृहं प्रयान्तं तं चर्मकारं दृशा तावदनुययौ, यावत्स दृष्टिगोचरमतीतः। येन दूरगतत्वान्नायमिच्छन्नपि तामनुयातुं क्षमेत । शङ्कितं हि तया—। असौ कदाचिन्मम गृहं जिज्ञासुः, निभृतं मामनुसरेत्—इति ।
९. तस्मिन्नेव दिने कश्यपस्य प्रेतसंस्कारो यथाविधि विहितः । तद्गतानि च तानितानि कर्माणि तथा नैपुणैनानुष्ठितानि, यथा सर्वोऽपि लोको मन्यते स्म—। यत्कश्यपः, आकस्मिकेनैव केनचिद् व्याधिना प्राणानुत्ससर्ज—इति ।
१०. अथौर्ध्वदेहिकादनन्तरं त्रिचतुरदिनाभ्यन्तरे, अलिपर्वा सर्वानपि गृहोपस्करान्सोदरसदनं दिवा प्रकाशमवहत् । चोरगुहाधिगतं द्रव्यराशिं तु निखातोत्खातं नक्तं निभृतमनयत् । येन न कोऽपि तं जानीयात् । अथाल्पेनैव कालेन विधिवशात्तस्य सीमन्तिनी पञ्चत्वमगात्। ततः, अभिमतजायाविनाशदुःखितोऽसावचिन्तयत्—। दरिद्रमपि मे पूर्वगृहं गृहिणीसनाथत्वान्मम प्रीतये संवृत्तम्। नूतनमिदं पुनः समृद्धमपि भार्याहीनत्वान्न मे तोषमावहति । उक्तं हि—