पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३०

पुटमेतत् सुपुष्टितम्

२७


 ८. एतस्मिन्मुष्टवाहः प्रत्यवदत्—। एतत्त्वदुक्तं व्यक्तं त्वामागन्तुकं कथयति । अहं हि दृशः पाटवान्मत्तो वर्षीयसोऽपि जनानतिशये । प्रतिजाने ते—। यन्मया नातिचिरात्प्रागेव, इतोऽपि मन्दप्रकाशे देशे, शवः कश्चित्सेवनेन संहितः ।

 ९. ततो दस्युरसौ स्वगतं बभाषे—। अहो शोभनमापतितम् ! यत्—मया प्रथमतरमेव स एव नरो दृष्टः, यो मह्यमीप्सितं वृत्तं कथयितुं समर्थः स्यात् । प्रकाशं चोवाच—। किं ब्रवीपि ? शवः संहितः इति ? अथ शवस्य संधानेन किं प्रयोजनं स्यात् ? मन्ये, न शवः संहितः, किंतु शवाच्छादनपटः—इत्येव तव विवक्षितम् । चर्मकारः प्रत्याह—। मा मैवम् । यथाहं यद्वक्तव्यं तन्मनसा सम्यग्जानामि, तथा यदेव वक्तव्यं तदेव वाचा व्याहरामि । मन्ये——। सर्वमेतद्गतं वृत्तं त्वं ज्ञातुमिच्छसि । येन जानन्नपि विपरीतमित्थं शङ्कसे । नाहं पुनरेवमतिसंधेयः । तुभ्यं च न किंचिदधिकं कथयिष्यामि ।

 १०. एतदाकर्ण्य चोरस्यायं प्रत्ययो दृढतां गत:—यत् स चर्मकारस्तेन जिज्ञासितमर्थं कथयितुं प्रभवेत्—इति । अथ धनग्रन्थेर्निष्कमेकमादाय मुष्टवाहस्य हस्ते निक्षिप्य सोऽब्रवीत्—। भद्रमुख, त्वद्रहस्येन ज्ञातन मम किं प्रयोजनम् ? तथाप्येतद्ध्रुवं ज्ञातुमर्हसि यत् कथितं चेत्त्वया, तद्रहस्यं न मया कस्मैचित् प्रकाशयितव्यम् । एवं सति, केवलं कुतूहलवशान्मया प्रार्थ्यसे—। मह्यं तद्गृहं दर्शय, यत्र त्वया शवसंधानं कृतम् ।

 ११. अथ निष्कं तं तस्मै नवागताय प्रत्यर्पयितुं किलोद्यतः करे धृत्वा, मुष्टवाहः प्रत्यब्रवीत्—। प्रथमं तावत्, तद्गृहं तुभ्यं दर्शयितुमेव मया नेष्यते । अपरं च दर्शयितुमिच्छतापि सता, तथा कर्तुं मया न शक्यते । यतस्त-