पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३५

पुटमेतत् सुपुष्टितम्

३२


कुतः पुनस्तदभिज्ञेयं शत्रुगेहं निर्धारयितुम् ?—इति । एतदाकर्ण्य स स्तेनपतिः स्वप्रयोगं विफलं प्रेक्ष्य व्यमनायत । अकालक्षेपं च संकेतस्थानमासाद्य प्रथमदृष्टं चोरं बभाषे—। यथा–वन्ध्य एवास्माकमितःप्रवासप्रयासः । यथागतं सुनिभृतमेवास्माभिर्गुहां प्रतिनिवर्तितव्यम्—इति ।

 ७. अथ प्रदोषकाले गुहायां सर्वस्मिंश्चोरव्राते मिलिते स दस्युनायकः किंकरेभ्यः सिद्धिविपर्ययस्य कारणं व्याचख्यौ । तन्निशम्य तैर्निश्चितम्—। यत्कृतं समयमनुसृत्य विफलप्रयासोऽयं सहचरोऽस्माभिर्हन्तव्यः—इति । सोऽपि तं निर्णयं वीरवदभिनन्द्याब्रवीत्—। सर्वथा युक्तमेतन्मम । अहं हि गुरुतरावधानेन व्यवाहरिष्यं चेत् कुतो मे प्रबन्धो वन्ध्यतामयास्यत् ? ततश्चासौ भूतलन्यस्तजानुरवाङ्मुखः, एकेनैव खड्गप्रहारेण लोकान्तरं प्रस्थापितः ।


नवमो भागः

चोरधुर्यप्रबन्धः

  आत्मवत्सर्वभूतानि पश्यन्तः साधवोऽमलाः ।
  न खलांश्छद्मबहुलांस्तत्त्वतो वेदितुं क्षमाः ॥ २८ ॥

 १. यावद्गुहारहस्यवेदी नरो नासाद्य व्यापाद्यते तावद्दस्युचक्रं न वीतभयं स्यात्—इति विचिन्त्य अपरश्चोरस्तदन्वेषणं प्रतिज्ञातवान् । पूर्वगः सहचर इव सोऽपि तमेव चर्मकारमुपेत्य तं चोपायनेन वशीकृत्य ततश्च जिज्ञासितं गेहं जज्ञौ । तदीयद्वारे दूरोच्छिते दुर्लक्ष्यदेशेऽरुणचूर्णेन लघुलक्ष्म निर्ममौ च।