३८
निधापयामास । अथ पेयं पचन्त्यामेव तस्यां, दीपो ह्रसत्तैलो मन्दतामगात् ।
गृहेऽपि तैलं नासीत् । न वा वसावर्त्तयोऽप्यवशिष्टाः । ततः सा स्वगतमब्रवीत्—।
अधुना किं विधेयम् ? तैलाभावे कथं दीपज्वलनम् ? तदभावे
च कुतः प्रकाशः ? अप्रकाशे च पेयं कथं संपादयितव्यम् ? स्नाननिवृत्ताय
च स्वामिने किमुपहर्तव्यम् ? इति ।
२. एवं मारजनिं चिन्ताकुलामालोक्य, अब्दपालः प्रोवाच—। अलं तैलाभावमधिकृत्य पर्याकुलत्वेन । तावदङ्गणं व्रज । तत्र चान्यतमाच्चर्मकुम्भात्तैलं किंचिदुद्धर। तन्मूल्यं हि नूनं प्रभातेऽस्मत्स्वामी वणिजे दास्यति— इति । अहो युक्तमुक्तं त्वया ! इत्युक्त्वा मारजनिस्तथा कर्तुं प्रवृत्ता । अथाब्दपालो गत्वा, अलिपर्वणः शयनभवनस्यानन्तरायामेव शालायां प्रसुप्तः। येन प्रत्यूषेऽवगाहार्थं प्रस्थितं गृहपतिमवगच्छेत् । तेन हि स्वामी स्नानार्थं गच्छन्वस्त्रहस्तेनानुगन्तव्यः । मारजनिरपि तैलमाहरन्ती, रिक्तं तैलपात्रमेकेन करेण, दीपं चासन्ननिर्वाणमपरेण वहन्ती, प्राङ्गणं प्राविशत् । यावच्च सा प्रथमं कुम्भमुपेयाय, तावदन्तःस्थितः स्तेनः स्वैरतरमप्राक्षीत् । अप्युपस्थितः स समयः ? यत्नतो मन्दं भाषमाणस्यापि तत्तस्य वचनं सा स्फुटं जग्राह । यतश्चोराणां सुखश्वसनार्थं तत्स्वामिना कुम्भानां मुखपटा मात्रया शिथिलिता आसन्।
३. सा तु कुम्भतस्तैलं लब्धुकामा, ततो मनुजशब्दमुत्थितं निशम्य, विस्मयस्तिमिता बभूव । एवंगतेऽन्यदास्योच्चैः क्रोष्टव्यम् । सा तु पटुमतित्वात्तस्मिन्समयेऽनुत्क्रोशमेव युक्तं मेने । तया हि शङ्कितम्—। कोलाहले कृते स्वामिनो मे सकुटुम्बस्य सहदासस्य च नाशोऽवश्यंभावी । अथ तं गूढपुरुषमुद्दिश्य तत्क्षणं मन्दं प्रतिजगाद—। न सद्य एव, किं त्वचिरेण । ततः