पृष्ठम्:चोरचत्वारिंशीकथा.djvu/४५

पुटमेतत् सुपुष्टितम्

४२

 १४. एतस्मिन्स पप्रच्छ- हड्जे, किमेतद्भणसि ? स्फुटं कथय । सा प्रत्युचाच-एषा कथयामि । किं तु प्रथमं प्रार्थनीयोऽसि मया--। यद्भ- वता निभृतं स्थातव्यम् । नाल्पोऽपि शब्दः कर्तव्यः। यतः, केनाप्यस्म- त्प्रतिवेशिना वृत्तमेतन्न ज्ञातव्यम् । घटान्तरेषु तावत्पश्य । अलिपर्वा तथा चकार । प्रतिघटं च परेतपुरुषमीक्षांचक्रे। अन्तिमं च कुम्भमासाद्य तस्मि- न्नल्पावशेषं तैलं ददर्श । सर्वमेतदालोक्य स स्वप्नगतमिवार्थे पश्यन्निश्चल: स्थितः । स प्रथमं कुम्भान्, ततश्च मारजनिम् , भूयोऽपि कुम्भान् -- एवं तत इतश्चक्षुषा ददर्श, मुखेन तु न किंचिद्बथाजहार ।

 १५. अथ मनाग्मन्दीभूतविस्मयोऽसौ तां पप्रच्छ--। कुत्र गतः स तैलापणिकः ? किं वृत्तं तस्य ? सा प्रत्युवाच -- । किं तैलापणिकं पृच्छसि ? स तावदापणिक एव नाभूत् । किं पुनस्तैलापणिकः ? को वासौ परमा- र्थतः, कुत्र वा गतः, इत्येतदपि निवेदयिष्यामि । कि तु, उष्णोदक- स्नानेन त्वया श्रान्तक्षुधितेन भाव्यम् । अतः, प्रथममभ्यन्तरं प्रविश्य त्वया क्कथिका पातव्या। उपाहारश्च कर्तव्यः । तं च सेवमानाय तुभ्यं यथावृत्तं सर्वमादितो विवरिष्यामि ।

 १६. अथ तौ गृहान्तरगतौ । स चोपाहारमजुषत । तथावस्थितं च तं मारजनिर्बहिर्द्बारवर्तिनो गैरिकचिह्नस्य दर्शनादारभ्य सर्वं व्याचष्ट । अब्र- वीच्च-। गुहागतैरेव चत्वारिंशता लुण्ठकैरेतैः साहसिकैर्भाव्यम् । त्वं तद्र- हस्याभिज्ञोऽसि इति कथमपि तैरवगतम् । त्वद्वधार्थमेव च तेऽत्रागता:-- इति दृढो मे तर्कः । तेषां सप्तत्रिंशन्मितास्त्वत्र मृतास्तिष्ठन्ति । तेषां नायकःअन्यौ च द्वौ, संप्रत्यवशिष्टाः स्युः- इति ।

 १७. तया हि न ज्ञातम्, यच्चोरद्बयं ’नन्ध्योद्यमत्वात्पुर्वमेव नायकादेशा-