पृष्ठम्:चोरचत्वारिंशीकथा.djvu/४९

पुटमेतत् सुपुष्टितम्

४६

 ७. अथ कदाचिदलिपर्वा पुत्रस्य पण्यशालायाः समीपेन गच्छंस्तां प्रविष्टः । पुत्रेण सह संभाषणेन स्थितश्च । एवं हि तन्मार्गेण व्रजन्स भूयो विदधौ । स लुण्टाकपतिरलिपर्वाणं दृष्टमात्रमभिजज्ञौ । गते तु तस्मिन्सोऽ नभिज्ञ इव तस्य पुत्रमप्राक्षीत्--। कोऽयं पुरुषः ?–इति ।

 ८. यूनस्तस्य मुखात्तं तस्य जनकं विज्ञाय, स स्तेनधुरीणो भूयसा जहर्ष । चिन्तितं हि तेन--। यदेषोऽनयोः संबन्धः, चिकीर्षिते मम कर्मणि भृशमुपकुर्यात्-इति । ततः प्रभृति सोऽलिपर्वपुत्रेण सह सौहार्दं सविशेषं संवर्धयामास । तस्मै च नैकवारमुपायनानि ददौ । एवं तस्मिन्दृढसुहृदिव व्यवहरति स्म ।

 ९. स वणिग्युवा नैतद्रोचयामास, यदेतान्यागन्तुकवणिज उपकृतानि मया प्रतिग्राह्याणि, ततप्रत्युपकारः पुनर्न कोऽपि कर्तव्यः- इति । किन्तु तस्य गृहस्य स्वल्पावकाशत्वाद्यथामनीषितं तस्यातिथ्यं कर्तुं स न प्रबभूव । तथाहि, सोऽलिपर्वणो भूतपूर्वं गृहमध्युवास । तत्पिता तु धनीयसो ज्यायसो भ्रातुः । अतः, स विपयं तमुद्दिश्य कदाचित्पितरं बभाषे ।

 १०. अलिपर्वा तु तनयवयस्यान्संभावयितुं न कदापि मन्दादरो बभूव । अतः स कदाचिन्मन्दवासरे स्वगृहमागतं तनयं बभाषे- श्वो रविवासरो वर्तते । रविवासरे च त्वया च कुजहर्षणेनापि श्रेष्ठिवरसंप्रदायमनुसृत्य पण्यशाला नैवोद्धाटनीया । अतः श्वः, तमुद्यमिनमात्मना सार्धं विहर्तुं नेष्यसि । निवर्तमानश्च वर्त्मनैतेन गच्छन्, तं मम गृहमानेष्यसि । विधिवदामन्त्रणापेक्षया यदृच्छया किल तस्य गृहानयनं सुतरां समीचीनं मे भाति । अहमपि संपन्नतरं शोधनं कल्पयितुं मारजनिमादेक्ष्यामि ।