पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५

पुटमेतत् सुपुष्टितम्

प्रेक्ष्य निजं वित्तादिकं तयोः समं व्यभजत् । येन तौ विभवाद्यर्जनविषये तुल्यावस्थौ स्याताम् । अथ कश्यपः कस्यचिन्महाधनस्य पुत्रीमुदवहत् । येन सपद्येव नगरवासिभिर्वणिग्वरैस्तुल्यविभवो बभूव । विविधैश्च विलासैः कालमनयत् । तथा हि प्रभूतधनत्वात्, ईप्सितं किमपि वस्तु तस्य दुरासदं नासीत्।

उक्तं च-अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् ।

सर्वे धनवता प्राप्य सर्वं तरति कोशवान् ॥ ५॥

 २. यथालिपर्वणः, तथा तस्य श्वशुरस्यापि, अल्पमेव वित्तमासीत् । येन स निःश्रीक उटजे कृतावासः, आत्मानं च कलत्रापत्यानि च महता कष्टेन पुपोष। अपत्यान्यपि दरिद्रस्य तस्य बहूनि बभूवुः।

उक्तं हि-सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् ।

न त्वेकोऽपि समृद्धानां विचित्रं विधिचेष्टितम् ॥ ६ ॥

 असौ प्रत्यहमुषसि समुत्थाय, इन्धनच्छेदनाय विपिनं व्रजति । छिन्नमिन्धनं त्रयाणां गर्दभानां पृष्ठगतं करोति । पुरमानयति । तत्र च विक्रीणीते । ततश्च लब्धेन धनेन वृत्तिं करोति ।

 ३. अथैकदालिपर्वा नित्यमिव वनं गतः । तत्र च गर्दभत्रयपर्याप्तं काष्ठभारं चिच्छेद । तत्क्षणं च दूरे नभसि विसर्पत्पांसुपटलं तस्य दृश्यतामगात् । तत्र च दत्तदृष्टिरयं जज्ञौ– । यथा–एष रजस्तोमः, एतमेव देशमुद्दिश्य सवेगं प्रधावतामश्वारोहाणां बलेनोत्थाप्यते । | मेने च-- । यतोऽस्मिन् देशे राजपुरुषा न संचरन्ति, तत एभिस्तुरंगसादिभिर्दस्युभिर्भाव्यम् । उक्तं हि --