पृष्ठम्:चोरचत्वारिंशी कथा.pdf/14

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33 अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदोऽर्थिनः । अपुष्पादफलादृक्षाद्यथा कृष्ण विहंगमाः ॥ १३ ॥ धनमाहुः परं धर्म धने सर्वं प्रतिष्ठितम् । जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥ १४ ॥ अतोऽधुना भ्रात्रा भाग्यतो लब्धं धनराशिमाकर्णयतः कश्यपस्य कुतः परितोषः ? केवलं तीव्रो मत्सरानलस्तस्य चेतसि संधुक्षितः । तौ दंपती, अलिपर्वाणमुद्दिश्य, ईर्ष्यारोषकलुषचेतसौ बभूवतुः । यत्सत्यम्, तमेवार्थं मनसि विपरिवर्तयन्कश्यपस्तस्यां निशि क्षणमपि निद्रां नालभत । अन्येयुः प्रागेव प्रभातादुत्थाय स क्रोधपरुष एव महता संरम्भेण भ्रातुर्निवेशनं प्राप । तं चानुयुयुजे- रे अलिपर्वन्, त्वं तावजनान्प्रत्याययितुं प्रयतसे- । यत्वमतीव दुर्गत: कष्टश्रितः, किं बहुना याचकनिर्वैिशेपश्च । धनं पुनस्ते न संख्येयम्, किंतु मेयम् । एतस्मिन्नलिपर्वा प्रत्युवाच- आर्य, व्यक्तमुच्यताम् । नाहं त्वदुक्तं गृह्णामि । ७. तदा कश्यपोऽब्रवीत्-- मद्वचसस्त्वमात्मानमगृहीताथ दर्शयसि । किंतु, किमनेन वाग्व्यवहारेण ? । एप निष्क एव त्वां गृहीतार्थ विधास्यति । एतावदुक्त्वा, भार्यादत्तं स्वर्णनिष्कं भ्रात्रे दर्शयित्वा कश्यपेन गदितम्- निरूप्यतामेष निष्कः । एष तस्य मानस्याभ्यन्तरे लग्नोऽभूत्, यस्वद्वार्यया मद्वेहिन्याः सकाशाक्षीतमासीत्। तद् बृह- कियन्त ईदशा निष्कास्त्वत्संनिधौ वर्तन्ते । ८. एतन्निशम्यैवालिपर्वा विवेद— यत्--आत्मनो धनागमवृत्तं मा कस्यापि विदितं भवतु—इद्वि मयाभिलषितम् । तत्पुनर्मद्रुहिणीचापलात्कश्यपेन च तज्जायया च स्फुटं विज्ञातम्-इति । किंतु * जातस्याजननं