पृष्ठम्:चोरचत्वारिंशी कथा.pdf/15

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

rr नास्ति ?—इति विचिन्त्य, विस्मयं वा विषादं वा लेशतोऽप्यनाविष्कुर्वन्स भ्रात्रे बभाषे- आर्य सत्यमेतत्, यलाहँ तथा दरिद्रो यथा केचिन्मां गृह्णन्ति । संप्रति हि यावन्मे धनं वर्तते तावत्कदापि मदीयं स्यात्-इति न जातु मया संभावितपूर्वम् । तदा कश्यपेनोक्तम्- एततु स्पष्टमेव । किमेतेन ज्ञातज्ञापनेन ? एततु वेदितुमिच्छामि, कुतस्त्वयेदं धनमाहृतम् ? सहजेन प्रतिगदितम् - अवधेहि । श्रावयामि त्वां मद्धनागमवृत्तम् । ९. एवं कृतप्रस्तावोऽलिपर्वांग्रजाय वर्णयामास- वनगता चोरगुहा कीदृशी वर्तते । कथं च दैवयोगात्तेन सा दृष्टा । अब्रवीच्च- रहस्यमेतद्रक्षितुं प्रतिजानीषे चेत्, अहं त्वामेतस्याः संपदः संविभागिनं करिष्यामि । १०. कश्यपः साटोपं प्रत्यवादीत्- अपेक्षितपूर्वमेव मयेदम् । एतत्त्ववगन्तुमिच्छामि- सा गुहा कस्मिन्वनोद्देशे वर्तते । कैश्च लक्षणैः परिचीयते । येन यथाकाममहं तत्र गच्छेयम् । एतचेन्मम कथयितुं नेच्छसि, अहमेतमर्थ सपदि गत्वा नगरपालाय निवेदयिष्यामि । तथा सति न केवलं त्वं न पुनर्धन लप्स्यसे, अपि च लब्धपूर्वमपि त्वतो नगरपालाज्ञया हरिष्यते । तन्मध्याच्च महतीमर्थमात्र पारितोषिकमिित प्राप्स्यामि । ११. एतद्वचनमलिपर्वणी न मनागपि भयाय बभूव । स हि सहोदरे सदैव स्निग्धवृत्तिरेवासीत् । अतोऽधुनासौ कश्यपाय न केवलं तद्रुहायाः स्थानं लक्षणानि च, अपि तु तस्या अपावरणस्य संवरणस्य च मन्त्रैौ व्याचख्यौ ।