पृष्ठम्:चोरचत्वारिंशी कथा.pdf/18

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8. ७. अथ तुरगावरूढास्ते खज्ञानाचकृषुः । केचिच तत्खरस्वामिनं बाह्यायां वृक्ष्यराज्यामन्विष्यन्ति स्म । यावत्तेषां मुखरः शेषैः सहचरैः सह द्वारमासाद्य विवृतिपद्य पठितवानूं॥ ८. अतः पूर्वमेव, गुहान्तर्निरुद्धेन कश्यपेन सवेगमुपसर्पतां सप्तीनां खुरशब्दः श्रुत आसीत् । तेन चानुमितम्- यद्दस्यवो निवृत्ताः-इति । मेने च- अहमेतैश्चोरैर्धुवं हन्तव्यः । तथापि मया यावच्छक्यमात्मा रक्षणीयः । उक्तं हि मनीषिभिः-- अवश्र्य प्राणिना प्राणा रक्षितव्या यथाबलम् । त्यक्तं न किं तांस्त्यजता रक्षितं किं न रक्षता ॥ १७ ॥ अथ स्वप्राणत्राणार्थं तीव्रतरं यत्नमास्थातुं स निश्चिकाय । तदर्थं च, समुचितं स्थानमिति कृत्वा, स द्वारस्य पश्चिमं भागमभजत् । येन, विवृतमात्रे द्वारे स झटिति निष्क्रामेत् । चिरं सुस्मूर्षतोऽपि यो मन्त्रस्तं नोपस्थितः, तमेवासौ स्तेनपतिना प्रोक्तं सविस्मयविषादमाकर्णयामास । द्वारं च सद्यो विघटितमीक्षांचक्रे । अथ प्राणान्परीप्सुः पलायमानः कश्यपश्चण्डं वेगमाश्रित्य द्वारं प्रति प्रधावितः । प्रविशन्नेव दस्युमुख्यः, चण्डवेगेन तेन संघट्टमेल्य, तत्क्षणं भूमौ पपात । बहुभ्यः पुनस्तदनुचरेभ्यः कथं तेनात्मा रक्षितव्यः ? ते हि सर्वे खङ्गपाणयो द्वारदेशमावृत्य तस्थुः । तैश्चासौ तत्क्षणं व्यापादितः । ९. प्रविष्टमात्राश्धोरा गुहागर्म परितो निपुर्ण निरूपयामासुः । कश्यपेन गर्दभारोपणार्थमुपद्वारमानीताः प्रसेविकास्तैरभ्यन्तरं नीताः । यथास्थानं प्रतिष्ठापिताश्व। किं तु फ्रभूतत्वात्प्रसेविकानां तापूर्वमलिपर्वणापहृतानां तासां हानिस्तैनैव विज्ञाता। अर्थ तमेवार्थ चिन्तयितुं ते सर्व एकत्रोप