पृष्ठम्:चोरचत्वारिंशी कथा.pdf/20

एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१७
पञ्चमो भागः
कश्यपशवीपलब्धिः

अविवेकाद्भवेन्मृत्युः कार्य सिध्येद्विवेकतः । 
कश्यपश्चालिपर्वां च मतावत्र निदर्शने ॥ १८ ॥ 

१. अथ प्रवृत्तेऽपि प्रदोषे कश्यपमनागतं प्रेक्ष्य तद्वेहिनी महतीं चिन्तामाविशत् । ससंभ्रमं च देवरगृहं गत्वा बभाण— देवर त्वया तु प्रायोऽनुमितं स्यादेव- यद्भ्राता तेऽनुदित एवारुणे वनं प्रस्थितः । तत्प्रयोजनमपि तवावगतमेव । अधुना पुनः प्रवृत्तायामपि क्षपायां नासौ प्रत्यागुतः । येन मानसं मेऽनिष्टमेवाशङ्कते ।

२. भ्रातुरतिमात्रमर्थलोलुपत्वं सम्यग्जानानोऽलिपवी प्रागेव चिन्तयामास- यत्कश्यपोऽन्येद्युरेव चोरगुहां धनार्थे यायात्-इति । अत एव तद्धनविभागमुद्दिश्य तेन सार्धं कलहं परिहर्तुकामोऽसौ दिने तस्मिन् गृह एवावतस्थे । उक्तं हि---

शतत्यागः कलेः श्रेयानिति स्यात्प्राज्ञसंमतम् । 
विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य संमतम् ॥ १९ ॥ 

उदारचरितत्वाच्च मन्यते स्म-। अखिलमप्युर्वरितं धनं भ्राता चेदात्मसात्कुर्यात्, न कामपि मदीया हानि कलयामि । प्राप्तपूर्वेण हि धनेन मया ग्रावदायुः सुखेन जीवितव्यम् । प्रजावतीं च प्रकाशं प्रोवाचआर्ये, मन्ये- तमःप्रवृते: प्राग्रगरप्रवेशो न क्षेमाय-इत्येव विचिन्त्य भ्राता मे निशाप्रवृत्तिमेव प्रर्तुीक्षुमाणः बहिर्विलम्बते । अतो मुहूर्तादिव तेन
प्रत्यागन्तव्यम्। त्वया चात्र विषये न मनागपि चिन्ता कर्तव्या-इति ।

२