पृष्ठम्:चोरचत्वारिंशी कथा.pdf/22

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e पथि स न कश्यपस्य न वा तच्चक्रीवतां किमपि चिह्नमद्राक्षीत् । येन मनस्तस्य तत्तदनिष्ठं शङ्कते स्म । गुहामासाद्य द्वारं परितो रुधिरसेकं प्रेक्षत । येन संजातपूर्वी तस्यानिटशङ्गा ववृधेतराम् । अथ विवृतिमन्त्रोच्चारणवशाद्विवृते द्वारे प्रतिपार्श्वमेकमिति भ्रातु: शरीरशकले अवलम्बिते तेन निरूपिते । तदा तस्य हृदये कियत्साध्वसं समुत्पन्न स्यात्-इति न । वाचा व्याख्यातुं, केवल मनसोत्प्रेक्षितु यदि किल शक्यं स्यात्। ६. किमधुना प्रतिपत्तव्यमिति सोऽहाय निश्चिकाय । तच्छवावगुण्ठनाय पटादिक किमप्यन्वेषु स गुहागर्भ जगाहे । बृहत्यौ प्रसेविके आदाय तदन्तः शरीरखण्डे निदधौ। ते च पटेनैकेन सर्वत आच्छादयामास । एवं सुगुप्तं तच्छरीरं गर्दभमेकमारोप्य तस्योपरि दारुभारं रचितवान् । अन्यौ च बालेयौ स्वर्णपूर्णौं स्यूतावारोप्य तद्रोपनार्थ तयोरप्युपरि काष्ठभारौ निदधौ । ततश्च मन्त्रेण द्वारं पिधाय निष्क्रान्तः । किन्तु, आा प्रदोषाद्वनान्त एव काल यापितवान् । ७. अथ वासरे निवृत्ते तमसि च घनं व्यवगाहमाने स नगरं प्रविश्य गृहमाससाद । अथ कोशवाही गर्दभावङ्गण एव विससर्ज । यत्र तो तद्धार्ययापनीतभारौ क्रियेयाताम्। तृतीयं तु रासभमारोपितभ्रातृशवं स सोदरसदनं निनाय । तत्र प्राप्तोऽसौ द्वारं मन्दं ताडयामास । तच्च मारजन्या नाम गुहदास्या सादरमपाद्वैतम्। सा प्राज्ञा च चतुरा च रहस्यरक्षणक्षमा चासीत् । अलिपर्वा तं गर्दभमङ्गणं निनाय । तत्र च तस्य पृष्ठतः प्रसेविके अवरोपयांचकार। अथ मारजर्न रहसि प्रोवाच- यदधुना मया वक्तव्यं तत्त्वया रहस्यमिति गुणेतव्यम् । अन्यथा तव स्वामिन्या मम च विनाशी धुवः । स्वामी ते चेौरैयांपादितः । एते च प्रसेविके तच्छरीरं