पृष्ठम्:चोरचत्वारिंशी कथा.pdf/28

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R २. अथ तेषां नायकोऽब्रवीत्- ज्ञाताः खलु वयं चोराः । अस्मत्कोशगुप्तिस्थानमपि परस्य विदितम् । अत्रास्माभिः कोऽपि प्रतीकारोऽवश्यं कर्तव्यः । नोचेतू, न केवलमल्पाल्पशा आत्मनो वसुसंचय:, किंतु जीवितान्यपि नश्येयुः । अतो जीवद्भिरस्माभिः प्राणानपि पणीकृत्य निजवित्तहरणं रक्षितव्यम् । तथा चोक्तम् स्ववित्तहरर्ण दृष्ट्रा यो जीवेदप्रतिक्रियः । पितरोऽपि न गृह्णन्ति तद्दत्तं सलिलाञ्जलिम् ॥ २६ ॥ मन्ये, इत्थमिदं संवृत्तम्- यो नरोऽस्माभिर्हतः, तेन केनापि प्रकारेण गुहाप्रवेशरहस्यं विदितमासीत् । ततश्च निर्गन्तुमुद्यत एव तस्मिन् भाग्यादेव वयं गुहां प्रत्यागताः । पश्चात् केनापि तस्य शवो द्रव्यं च कियदप्यपनीते । तस्मादेतत्स्फुटं भाति— यत्कश्चित्तस्य सहचरोऽपि प्रवेशरहस्यं जानाति । अतो जिजीविषुभिरस्माभिरकालहीनं स सहचरोऽन्वेष्टव्यः । एवमुक्त्वा सोऽनुचरान्पप्रच्छ- कथं वात्र यूयं मन्यध्वे ? ३. एतस्मिन्सर्वैरपि तैः समं भणितम्- प्रसन्नस्ते तर्कः । इच्छामश्च- यावदस्मद्रहस्यवेदी नरो नोपलभ्य व्यापादितः, तावदस्माभिः किमपि कार्यान्तरं न चिन्तनीयम् इति । ४. अथ चोरपतिरनुचरानाह- बाढम् । युष्माकं मध्ये य आत्मानं धीरं चतुरं निर्भयं च गणयेत्, तेनाध्वगवेपं परिधाय नगरं गन्तव्यम् । तत्र चान्वेष्टव्यम्- यदि जनाः कस्यचित्पुरुषस्य, अकाण्डमरणमुद्दिश्य प्रलापपरा भवेयुः । एतावदुपलभ्य भूयोऽप्यन्विष्य जिज्ञासितव्यम्- कोऽसौ मृतः पुरुषः, कश्च तस्य निद्वासः ?—इति । एतत्सर्वमविज्ञाय, अस्मिन्वस्तुनि वयं किमपि कर्तुं न समर्थौः । भूयोऽपि सोऽभाषिष्ट- अवधार्यतां