पृष्ठम्:चोरचत्वारिंशी कथा.pdf/29

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R भोः- यदेतस्मिन्कार्ये प्रवृत्तो नरः, अनवधानाद्वा विधिनियोगाद्वा जनैः परिज्ञातश्चेत्, सर्वेऽपि वयं हतप्राया एव । अतो युष्माभिः सर्वैरपि प्रतिपक्तव्यम्- यद्यः कोप्यस्मिन्साहसे प्रवृत्य वन्ध्ययत्नो भवेत्, सोऽस्माभिस्तक्षणं हन्तव्यः । अपीदमभिमतं भवताम् ? । इति नायकेनोक्ते सर्वैरपि मोषकैः-उदारः कल्पः-इत्युक्त्वा तन्नायकवचनं सानन्दं प्रतिपन्नम् । ५. अथ तस्मिन्साहसे नायकन नामग्राहं कस्यापि नियोगात्पूर्वमेव तेषामन्यतमः प्रोवाच— स्वयमेवाहमेतस्मिन्कर्मणि प्रथमं प्रवर्ते । किं च स्ववग्र्याणां कृते स्वजीवितं संशयमारोपयामि-इति चिन्तयन्यत्सत्यं धन्यमात्मानं कलये । ६. स चोराग्रणीरितरे च तं तस्य साहसाभ्युपगमं प्रशशंसुः । अथ स आत्मानं नेपथ्यादिभिस्तथा भूषयामास यथा न कश्चित्तं चोरं शङ्केत । ततोऽधिपर्तिं च सहचरांश्चापृच्छय स पुरमुद्दिश्योदञ्चालीत् । तत्र च, उषःकाल एव संप्राप्तः । अथ तत्र नगरे रथ्यायामितस्ततो भ्रमन् स पूर्वोक्तस्य मुष्टवाहनाम्नश्चर्मकारस्य कर्मशालामपावृतां ददर्श । या यथोक्तपूर्व तत्स्वामिना, अन्यापेक्षया प्रागेव प्रत्यहमपात्रियते स्म। ७. तदा स चर्मकार: काष्ठपीठोपविष्टः, आरां करोणादाय कर्मणि प्रवर्तितुमुद्यत एवासीत् । यावत्स चोरस्तमुपस्थाय * सुप्रभातं ते भूयात्? -इत्युवाच । तं च परिणतवयसं दृष्ट्रा स बभाषे- आर्य, कथमेतावति प्रत्यूष एव कर्मणि प्रवर्तसे ? कथमिदं संभवति--यत्वादृशो जीर्णो नरः, अनुदित एव दिनकरे, गुणेन चर्म सेवितुं प्रभवति ? यस्मात्त्वादृशस्य जरठस्य चक्षुषी, भास्वति भृशं भासमानेऽपि नैव सीवनसमर्थे भवेतामृ ।