पृष्ठम्:चोरचत्वारिंशी कथा.pdf/30

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. एतस्मिन्मुष्टवाहः प्रत्यवदत्- एतत्त्वदुक्तं व्यक्तं त्वामागन्तुकं कथयति । अहं हि दृशः पाठवान्मत्तो वर्षीयसोऽपि जनानतिशये । प्रतिजाने ते-। यन्मया नातिचिरात्प्रागेव, इतोऽपि मन्दप्रकाशे देशे, शवः कश्चित्सेवनेन संहितः । ९. ततो दस्युरसौ स्वगर्त बभाषे— अहो शोभनमापतितम् ! यत्—मया प्रथमतरमेव स एव नरो दृष्टः, यो मह्यमीप्सितं वृत्तं कथयितुं समर्थः स्यात् । प्रकाशं चोवाच- किं ब्रवीपि ? शवः संहितः इति ? अथ शवस्य संधानेन कि प्रयोजनं स्यात् ? मन्ये, न शव: संहित; किंतु शवाच्छादनपट:- इत्येव तव विवक्षितम् । चर्मकारः प्रत्याह— मा मैवम् । यथाहं यद्वक्तव्यं तन्मनसा सम्यग्जानामि, तथा यदेव वक्तव्यं तदेव वाचा व्याहरामि । मन्ये- सर्वमेतद्रत वृत त्वं ज्ञातुमिच्छसि । येन जाननपि विपरीतमित्थं शङ्कसे । नाहं पुनरेवमतिसंधेयः । तुभ्यं च न किंचिदधिकं कथयिष्यामि | १०. एतदाकर्ण्य चोरस्यायं प्रत्ययो दृढतां गतः-यत् स चर्मकारस्तेन जिज्ञासितमर्थ कथयितुं प्रभवेत्’-इति । अथ धनग्रन्थेर्निष्कमकमादाय मुष्टवाहस्य हस्ते निक्षिप्य सोऽब्रवीत्- भद्रमुख, त्वद्रहस्येन ज्ञातन मम किं प्रयोजनम् ? तथाप्येतदूध्रुवं ज्ञातुमर्हसि यत् कथितं चेत्त्वया, तद्रहस्यं न मया कस्मैचित् प्रकाशयितव्यम् । एवं सति, केवलं कुतूहलवशान्मया प्रार्थ्यसे- मह्यं तद्वृहं दर्शय, यत्र त्वया शवसंधानं कृतम् । ११. अथ निष्कं तं तस्मै नवागताय प्रत्यर्पयितुं किलोद्यत: करे ध्रुवा, मुष्टवाहः प्रत्यब्रवीत्- प्रथमं तावत्, तद्वृहं तुभ्यं दर्शयितुमेव मया नेष्यते । अपरं च दर्शयितुमिच्छतापि सत, तथा कर्तुं मया न शक्यते । यतस्त