पृष्ठम्:चोरचत्वारिंशी कथा.pdf/31

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*< द्वेहं नीयमानोऽहं कंचिद्देशमासाद्य पटावृतलोचनो विहितः । तदवस्थश्च शवगृहं प्रवेशितः । कृतशवसंधानश्च पुनरपि पटावृतनेत्र एव तमेवोद्देशं प्रतिप्रापितः । अतस्त्वमेव जानीयाः- यदर्थ ते संपादयितुं न मया पार्यते । १२. अथ चोरो जगाद— बाढम्। मन्ये पुनः-वस्त्राच्छन्ननेत्रोपि गतपूर्वमध्वानं कियदपि गन्तुं शकुञ्याः । अतस्त्वं मां तं देशं प्रापयेः, यत्र पूर्वं त्वं संवृतनेत्रः कृतः । तत्र प्राप्तं त्वामधुनापि पटाच्छन्नचक्षुषं विधास्यामि । ततश्वावां, यावती रथ्याश्धोपरथ्याश्च गतपूर्वास्त्वं स्मरे, तावतीराक्रमिष्यावः। इदं च व्यवहितार्थस्यापि दर्शकं निष्कान्तरं गृहाण मन्येमदर्थे प्रयस्यतस्तव तोषस्यापि जनकमिदं स्यात् । सर्वो हि कृतस्य परिश्रमस्य कृते पारितोषिकमवश्यं लम्भनीयः । १३. तदा निष्कपाणिर्मुष्टवाहः क्षणं विचारयन् स्थितः- किं मयाघुना प्रतिपत्तव्यम् ?-इति । स हि न वा तस्मा अभ्यागताय मार्ग दर्शयितुमैच्छत् न वा तं हेमनिष्कं हातुमुदसहत । स प्राप्तपूर्व सद्योलब्धं चोभावपि निष्कौ करतलगतौ स्निग्धं निदध्यौ । न पुनः क्षणं निश्चयमगात् प्रतिपत्तिमन्तरेण । क्षणान्तरे जातनिश्चयोऽसौ, उरोनिहितं स्यूतमाकृष्य विवृतमुखं विदधौ, तस्मिश्च निष्कद्वयं निदधौ । दातुश्च संमुखीभूय बभाषे— अखिलो मार्गो मया स्मर्तुं शक्यः-इति नालमस्मि तुभ्यं प्रतिज्ञातुम्। तथापि बलवर्ती तवेच्छामनुरुध्य यथाशक्ति प्रयतिष्ये । १४. एवं वचनमादाय स स्वकर्मशालू यथास्थितमेव विवृतां विहाय, तेन चैरेण सहोचचाल। यतस्तस्यां शालायां स्तेयार्ह बहुमूल्यं वस्त्वेव