पृष्ठम्:चोरचत्वारिंशी कथा.pdf/32

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R&, किमपि नासीत्। अथ किंचिदन्तरं गत्वा मुष्टवाह उवाच । एतदेव तत्स्यानम्, यस्मिन्नितोमुखस्य मम लोचने वसनपिहिते विहिते । अथ स चोरः, तत्क्षण स्वकरवत्रिमादाय, तेन चर्मजीविनो नयने बबन्ध । एवमन्धीकृतं त स स्वहस्तेनादाय निनाय । चर्मकारोऽपि चोरस्याज्ञातमार्गत्वात्तस्य मार्गमुपदिदेश । एवं पर्यायेण परस्परप्रेरितौ तौ किंचिदन्तरमाक्रामताम् । यावत्स चार्मिकः स्थितः । १५. स्थित्वा च सोऽवादीत्- नाहमतः परतरं गतः--इति । एतच्च तदुक्तं यथार्थमेवासीत् । तदानीं हि स तस्यैव गृहस्य पुरः प्राप्तः, यत्र संप्रति सोऽलिपर्वा पुनभ्व कश्यपवध्वा सह वसतिमकरोत्। अथ क्षण मुष्टवाहोऽनपनीतनेत्रावरण एव स्थापितः । यावत् स चौरोगैरिकखण्डेन तद्रुहद्वारफलके त्रिशूलचिहमकरोत् । चर्मकारं चापनीतनेत्रबन्धं विधाय सोऽप्राक्षीत्- भद्र, कस्येदं गृहम् ? स तु प्रत्युवाच- नाहमेतत्स्वामिनं वेद्मि । अहं हि सुदूरचत्वरवासी। १६. अथास्माञ्चर्मकाराद्रोद्धव्यं किमपि नावशिष्टमू–इति मल्वा स तस्मै गृहगमनाय मुमोच । मुबंधोवाच-l बहूपकृतं त्वया मे-इति । आत्मनो जिज्ञासां सफलां प्रेक्ष्य स चोरः परितुष्टः । स्वीयां सिद्धिं वनगताय नायकाय निवेदयितुं सत्वरं प्रस्थितः । मेने च- मदीयमिदं चेष्टितमाकर्ण्य मत्सहचरा अपि मया समं तुष्येयुः--इति ।