पृष्ठम्:चोरचत्वारिंशी कथा.pdf/37

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

원낭 ५. अथासौ नगरं वत्राज । स्वर्णदानेन वशीकृतेन मुष्टवाहेन सार्धमलिपर्वणो गेहमाससाद । स तु तत्र कुत्रापि किमपि लक्ष्मादिकं न विदधौ । तझेहस्य तु तस्तान्विशेपान्, तस्य पुरो मुहुर्गतागतानि कुर्वस्तथा निरूपयामास, यथा स निश्चयं गतः-यदेतद्वृहाभिज्ञाने न जातु प्रमाद्यामि । ६. भूयोऽपि विपिनमासाद्य सहचरान्मेलयित्वा सोऽभाषत— वयस्याः, तद्रुहं मया दृढ़ परिचितम्। येन वैरनिर्यातनेऽस्मार्क न कोऽप्यन्तरायः स्यात् । इतोमुखं चागच्छता मया कोप्युपायोऽपि कल्पितः । येनास्माकं ध्रुवा सिद्धिः स्यात्-इति मे मतम् । तथापि तमुपायं युष्माञ्श्रावयिष्यामि। तस्मिन्नाकर्णिते ततोऽपि पटीयानुपायो युष्माकं कस्यचित्स्फुरेश्चेत् तमपि श्रोष्याम: । ७. अथासौ चोरकर्णधारः, चिन्तितमुपायमनुचरेभ्यो व्याचचक्षे । तैश्च-मूर्धन्योऽयम्-इत्युक्त्वा सोऽभिनन्दितः । ततस्तमुपायमनुतिष्ठासुः सोऽनुचरानादिशातू-। समीपवर्तीनि ग्रामनगराणि गच्छत, तत्र च नवदशाश्वतरान्, ततो द्विगुणानि चातिमहान्ति दृतिभाजनानि क्रीणीत । तेर्षा चैकतमतैलेन पूरयत-इति। ८. द्वित्रदिनावधौ तैः कुम्भीलकैः, यथापेक्षं चर्मकुम्भाश्चाश्वतराश्च क्रीत्वा गुहामानीताः । अनन्तरं स चोरधुर्यः, सर्वानप्यनुचरान्यथोचितैः शस्त्रैः संनाह्य सप्तत्रिंशति कुम्भेषु, प्रतिकुम्भमेकः, इति स्थापयामास । तेषां च कुम्भानां बहिर्भागांस्तैलकुम्भातैलमुद्धृत्य तथाभ्यानख, यथा ते सर्वे तैल पूर्णा इवाभासेरन्।