पृष्ठम्:चोरचत्वारिंशी कथा.pdf/39

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ संप्राप्तो योऽतिथिः सायं सूर्योढो गृहमेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥ २९ ॥ अपरं च प्रभातात्पूर्वमेव त्वया गन्तव्यम् । येन नाल्पोऽप्युपरोधो मम स्यात् । एवमुक्त्वा स भाण्डवाहकानामश्धतराणां प्रवेशार्थ द्वारमपावृणोत्। अथ गृहदासमेकमाहूयादिदेश- अपनीतभाण्डानेतानश्वतरान्गोष्ठेऽवरुन्द्धि। तत्र च प्रभूतं धान्ययवसादिक तेभ्यो देहि-इति । एवं तेन कूटवणिजा पेशलोदारया वाण्या स्वार्थः संपादितः । तथा चोक्तम् गौर्गेः कामदुधा सम्यक्प्रयुक्तू स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोतुः सैव शंसति ॥ ३० ॥ १२. अथाभ्यन्तरं गत्वा स दासीं मारजनिमाज्ञापयत्- प्राघूर्णकार्थस्वादूणमाहारं संस्कुरु। मृदुविस्तीर्ण च तल्पं कल्पय-इति। वणिर्ज चोपस्थायाभ्यधात्- भवता प्रविश्य गृहमिदं सनाथीकरणीयम् । नाहं भवन्त सर्वरात्रमङ्गणेऽवस्थितं द्रष्टुमुत्सहे । किं पुनः शयितम् ? प्रथमं तावन्मया दत्तं भोजनं स्वीकुरु । अनन्तरम्...। एवंवादिनोऽस्य वचनमाक्षिप्य वणिगुवाच- अद्य भट्टारकवारे न मया नतं भुज्यते । अतः, अलं ते मदर्थमाहारपचनेन । अन्यदातिथ्यं तु मया सानन्दं प्रतिग्राह्यम् । तदाकर्ण्यलिमरजनिमुपेत्य प्रोवाच- प्राघुणकोऽयं न नक्तं भुङ्के । अतस्तदर्थे त्वया पाको न कर्तव्यः । भूयश्च बभाषे- श्वो महत्येव प्रत्यूषे मया स्नानाय गन्तव्यम् । अतो मदीयं स्नानवस्त्रादिकं पिण्डीकृत्य भृत्याय समर्पय-इति । मम प्रत्यागमनकाले पेयमपि किमपि पक्ष्य धारय। येन स्नानादांगतोऽहं तत्पिवेयम् । एतद्वचनमादाय स शय्यागारं प्रविष्टः ।