पृष्ठम्:चोरचत्वारिंशी कथा.pdf/45

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R १४. एतस्मिन्स पप्रच्छ- हञ्जे, किमेतद्भणसि ? स्फुटं कथय | सा प्रत्युवाच--एषा कथयामि । किं तु प्रथमं प्रार्थनीयोऽसि मया- यद्भवता निभृतं स्थातव्यम्। नाल्पोऽपि शब्दः कर्तव्यः । यतः, केनाप्यस्मत्प्रतिवेशिना वृतमेतक्ष ज्ञातव्यम् । घटान्तोरेषु तावत्पश्य । अलिपवी तथा चकार । प्रतिघटं च परेतपुरुषमीक्षांचक्रे । अन्तिमं च कुम्भमासाद्य तस्मिन्नल्पावशेषं तैलं ददर्श । सर्वमेतदालोक्य स स्वप्नगतमिवार्थं पश्यन्निश्चलः स्थितः । स प्रथमं कुम्भान्, ततश्च मारजनिम्, भूयोऽपि कुम्भान्-एवं तत इतश्चक्षुषा ददर्श, मुखेन तु न किंचिद्वयाजहार। १५. अथ मनाग्मन्दीभूतविस्मयोऽसौ तां पप्रच्छ- कुत्र गतः स तैलापणिकः ? किं वृत्तं तस्य ? सा प्रत्युवाच— किं तैलापणिकं पृच्छसि ? स तावदापणिक एव नाभूत्। कि पुनस्तैलापणिकः ? को वासौं परमार्थतः, कुत्र वा गतः,-इत्येतदपि निवेदयिष्यामि । किं तु, उष्णोदकस्नानेन त्वया श्रान्तक्षुधितेन भाव्यम् । अतः, प्रथममभ्यन्तरं प्रविश्य त्वया कथिका पातव्या । उपाहारश्च कर्तव्यः । तं च सेवमानाय तुभ्यं यथावृत्तं सर्वमादितो विवरिष्यामि । १६. अथ तैौ गृहान्तरगतौ । स चोपाहारमञ्जुषत । तथावस्थितं च तं मारजनिर्बहिद्वरिवर्तिनो गैरिकचिहृस्य दर्शनादारभ्य सर्व व्याचष्ट । अब्रवीच्च- गुहागतैरेव चत्वारिंशता लुण्ठकैरेतैः साहसिकैर्भाव्यम् । त्वं तद्रहस्याभिज्ञोऽसि-इति कथमपि तैरवगतम् । त्वद्वधार्थमेव च तेऽत्रागताःइति दृढो मे तर्कः । तेषां सप्तत्रिंशन्मितास्त्वत्र मृतास्तिष्ठन्ति । तेषां नायकः, अन्यौ च द्वौ, संप्रत्यवशिष्टाः स्युः-इति । १७. तया हि न ज्ञातम्, यच्चोरद्वयं éन्ध्योद्यमत्वात्पूर्वमेव नायकादेशा