पृष्ठम्:चोरचत्वारिंशी कथा.pdf/47

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्यातावकाशां दीर्घविस्तृतां गर्तामुञ्चरवान । तत्रत्याया मृत्तिकायाः शिथिलत्वात्, तत्कार्यमचिरेणैव संपन्नम् । अथ ताभ्यां तस्मिन्भूरन्ध्रे ताञ्शवानन्योन्यसंसतपावनिधाय, मृदा चाच्छाद्य, गतपरितल समीकृतम्। ततश्च ते कुम्भाधोरायुधानि च ताभ्यां निगूढ़ानि । अश्वतराश्वान्तरान्तरा दासैरापणं प्रापय्य विक्रापिताः । यतस्तैरलिपर्वणः प्रयोजनं नासीत् । एकादशी भागः छद्मापणिकः असभ्याः सभ्यसंकाशा नििखशु मृदुमानसाः । जिघांसवो हितपरा दृश्यन्ते कायेतः शठाः ॥ ३५ ॥ १. अनेन समयेन चोराग्रणीर्वनगतां गुहां प्रतिनिवृत्तः। सा तु दृढ़ानुरागाणां प्रेयसां वीरानुचराणां विनाशेन तस्य शून्या दुर्दर्शना च बर्भौ । येन तीव्रतरः शोकानलस्तन्मनसि संदुधुक्षे । सोऽचिन्तयत्- एते मदनुजाः शस्त्रपाणयो युध्यमाना अहनिष्यन्त चेत्, एष शोकदहनो न मामधक्ष्यत् ।\ एते पुनः पाशगृहीता विवशा इव पशवो निर्घृणं प्राणैर्वियोजिताः एतच्चिन्त्यमानं सत्, समूलमिवोन्मूलयति मामकं मनः-इति । ततोऽसीं प्रत्यपकारविमुखस्य केवलं कृते प्रतिकुर्वाणस्याप्यलिपर्वणो वयस्यवधदृष्ते प्रत्यपकर्तुं कृतमतिर्बभूव । २. कथं मया सिद्धकामेन भाव्यम् ?--इति चिरं निपुणं विमृश्य स उपायमेकं मनसाकल्पयत् । ततश्च गुहागतं शयनमधिशय्य क्षणेन गाढं निदद्री ।