पृष्ठम्:चोरचत्वारिंशी कथा.pdf/48

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. अथ प्रातरुत्थाय, स प्रवसतो वणिजो वेषं विदधौ । नगरं च गत्वा भोजनागारे वासमग्रहीत् । तेन संभावितम्- यदनेन समयेन, अलिपर्वणो गृहगतं वृत्तविशेपं नगरे वहुलीभूतम्, जनानां च संलापविषयीभूतं स्यात्-इति । अतः, तच्छ्रोतुकामोऽयमन्नशालास्वामिनं नगरगतामचिरजातां कैौतुकवतीं कांचिद्वार्त्तामपृच्छत् । स तु पृष्टो बहूनि वृत्तानि कथयामास । चोरहिंसां पुनरुद्दिश्य न किंचिदपि । ततः सोऽनुममे- यदलिफ्र्वणा स चोरवधव्यतिकरो रहस्यमिति रक्षितः, मा तद्वृत्तस्य श्रवणेन जनानां जिज्ञासा जायताम् । मा च गुहागतां धनसंपदं तदधिगमोपायं चोद्दिश्यैते कामपि चर्ची कुर्वतामू-इति । ४. स स्तेनपतिरात्मानं दुकूलवणिजं जनेभ्यः कथयामास । उवाच च- पट्टीवासांसि विक्रेतुं कियाचिंत्समीचीनया पण्यशालया मम कार्यमस्तिइति । केचित्कालमन्विष्य स पण्यागारमेर्क परििचक्रिये । ततु विधिवशात्कश्यपस्य भूतपूर्वाया विक्रयशालायाः पुर एव वर्तते स्म । ५. अथायं कपटापणिको वनं निवृत्तः । गुहां च प्रविश्य, तत्र संचितानि महार्धाणि चीनांशुकानि स्वीयमवमारोपयामास । तानि च नगरगर्त निजं पण्यस्थानमानिनाय । एवं नैकवारं विधाय, स बहून्दुकूलभारान्नत्रां पण्यशालामवहत् । तदर्थं पुनः, स्वगुहां लोकलोचनेभ्यो रक्षन्, नतमेव निभूतं गतागतानि चकार। ६. स नाम्रा कुजहर्षणो बभूत्र । आगन्तुकश्व सन्, स प्रतिवेशिवणिक्षु भूयसा दक्षिणोदारत्वेन वद्वते । तस्य संमुखे पण्यागारे स्थितोऽलिपर्वणः पुत्रः, न केवलं युवा दर्शनीयश्च, पटुबुद्धिरप्यासीत् । स च कुजहर्षणश्च, वारंवारमुद्यमगतांत्रिषुानुद्दिश्य संलापं चक्रतु: । पेन तौ गच्छता कालेन मिथो वयस्यभावमिव पुपुषतुः ।