पृष्ठम्:चोरचत्वारिंशी कथा.pdf/5

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R प्रेक्ष्य निजं वित्तादिकं तयोः समं व्यभजत् । येन तौ विभवाद्यर्जनविषये तुल्यावस्थौ स्याताम् । अथ कश्यपः कस्यचिन्महाधनस्य पुत्रीमुदवहत् । येन स सपचेव नगरवासिभिर्वणिग्वरैस्तुल्यविभवो बभूव। विविधैव विलासैः कालमनयत्। तथा हि प्रभूतधनत्वात्, ईसितं किमपि वस्तु तस्य दुरा सर्द नासीत्। उक्तं च-अधूनं दुर्बलं प्राहुर्धनेन् बलवूान्भुवेत् । सर्वं धनवता प्राप्यं सर्वं तरति कोशवान् ॥ ५ ॥ २. यथालिपर्वण:, तथा तस्य श्वशुरस्यापि, अल्पमेव वितमासीत्। येन स नि:श्रीक उटजे कृतावासः, आत्मानं च कलत्रापत्यानि च महता कष्टेन पुपोष । अपत्यान्यपि दरिद्रस्य तस्य बहूनि बभूवुः । उक्तं हि—सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् । न त्वेकोऽपि समृद्धानां विचित्रं विधिचेष्ठितम् ॥ ६ ॥ असौ प्रत्यहमुपसि समुत्थाय, इन्धनच्छेदनाय विपिने व्रजति । छिन्नमिन्धन त्रयाणां गर्दभानां पृष्ठगर्त करोति। पुरमानयति । तत्र च विक्रीणीते । ततश्व लब्धेन धनेन वृतिं करोति । ३. अथैकदालिपर्वा नित्यमिव वनं गतः । तत्र च गर्दभत्रयपर्याप्तं काष्ठभारं विच्छेद। तत्क्षण च दूरे नभसि विसर्पत्पांसुपटल तस्य दृश्यतामगात् । तत्र च दत्तदृष्टिरयं जज्ञैौ- यथा-एष रजस्तोमः, एतमेव देशमुद्दिश्य सवेगं प्रधावतामश्वारोहाणां बलेनोत्थाप्यते । मेने च--- यतोऽस्मिन् देशे राजपुरुषा न संचरन्ति, तत एस्तुिरंगसादिभिर्दस्युमिर्भाव्यम् । उक्तं हि--~