पृष्ठम्:चोरचत्वारिंशी कथा.pdf/50

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VG ११. अथापरेद्युः, अलिपर्वसूनुर्हर्षणमुपस्थितः । विहारार्थं च तावुभौ प्रस्थितौ । निवर्तनसमये स व्यवसायी युवा हर्षणं पितृगृहस्य पुरोयायिना वर्त्मनानयत् । तद्वृहं प्राप्य प्रविष्टोऽयमभ्यागतमब्रवीत्- प्रियवयस्य, भवनस्यास्य पिता मे पतिर्वर्तते । तमहमावयोः सैौहार्दमधिकृत्य भूयो व्याहार्षम् । तेन च त्वत्परिचयसौभाग्यमनुभवितुं नैकवारं मनोरथोऽपि दर्शितः। अतस्तद्वृहसविधेन गच्छन्तं त्वां, न चेदहं तस्मै नेष्यामि, ध्रुवं स मह्यं कोपिष्यति । १२. अलिपर्वगेहे प्रवेशः, तेन क्षैमनैगमेन चिरवाञ्छित एवासीत्। तथाहि, एवं प्रकाशलब्धन प्रवेशेन, स न केवल सुखेन किं तु विनैवात्मसंदेहेन तं व्यापादयितुं पारयेत् । एवं चेतसा प्रवेशोत्सुकोऽपि, स प्रकाशमब्रवीत्- सखे, अलं निर्बन्धेन। अनुजानीहि मां गृहगमनाय-इति । अस्मिनेवान्तरे, अन्तर्गेहद्वारं सेवकेनापावृतम् । तेन च, अलिपर्वतनयो वयस्यमगणितप्रत्यादेशं पाणिना पाणौ गृहीत्वा मित्रभावेनान्तश्वकर्ष । १३. ततोऽलिपर्वा तस्मै मायाव्यवहारिणे गरीयसा दाक्षिण्येन स्वागतं व्याजहार । बभाषे च- एष मे पुत्रः, त्वां च तावकानि च बहून्युपकृतानि श्लाघमानः, मया बहुशः श्रुतः । ततोऽहमप्याशंसे- गच्छता कालेन दृढतां गतेनावयोः परिचयेन, त्वत्सखिषु गण्यतामासाद्य धन्यमात्मानं कलयेयम्-इति । एतस्मिन्कुजः प्रतिजगाद- मामैवम् । मदीयं खल्विदं भाग्यम्, यत्त्वत्पुत्रपरिचयो मयाधिगतः । तथा हि, एतद्दाक्षिण्यम्, इयं चातुरी, अदश्च मतिपाटवं, विरलं खलु यूनि लभ्यन्ते । १४. अथ कांचित्कालकलों संभाषणेन नीत्वा, स वणिकप्रस्थातुं