पृष्ठम्:चोरचत्वारिंशी कथा.pdf/52

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३, द्वादशो भागः चोरनायकनिधनम् भीतवत्संविधातव्यं यावद्भयमनागतम् । आगतं तु भयं प्रेक्ष्य प्रहर्तव्यमभीतवत् ॥ ३६ ॥ १. मारजनिर्गृहपतेरादेशाञ्श्रुतमात्रानेव नित्यं सानन्दमन्वतिष्ठत् अद्य पुनः स्वामिसंदेशमाकर्ण्य सा मनाग्व्यमनायत । तेन समयेन हि भोज्यजातं कल्पितप्रायमासीत् । अतः, तेन संदेशेन कानिचिद्भोज्यानि तया भूयः संपादयितव्यानि । ततः सा तं प्रतिबभाषे- अहो विचित्र एष पुरुषः, यः पिशितं विनैव सैन्धवं सेवते ! को नामायं भवेत् ? तदर्थं भोज्यानि द्वितीयवारं पचन्त्यां मयि, युष्माकं भोजनमतिचिरस्थापितत्वात्, शीतं च रुध्येतरच जायेत-इति । अलिपर्वा प्रत्युवाच- अयेि मारजने, अलमपरितोषेण । स खलु शुचिव्रत आर्यजनोऽस्ति । अस्मिन्समये त्वया मदुतमनुष्ठातव्यमेव । २. एवमाज्ञसेयमकामतोऽपि स्वाम्यादेशं निरवर्तयत् । कोऽयं लवणद्वेषी स्यातू? अहमेनं पश्याम्येव-इति सा स्वगतं बभाषे । तया हि निर्लवणाशी पुरुषो न दृष्टपूर्वः, न वा श्रुतपूर्वोऽपि । अतः समाप्ते महानसव्यापारे, भोजनपीठेषु चाब्दपालेन निहितेषु, भोजनपात्राप्युपरितनी भूमि नयतस्तस्य सा साहाय्यमकरोत् । एवं व्यापृता सा तं कुजहर्षणं निपुणं सावकाशं च निरूपयितुमलमासीत्। ३. दृष्टमात्र त कृतवेषान्तरमपि सा चोरनायक इत्यभिजज्ञौ। निपुण तरं च विलोक्य, तेनान्त:प्राँव, गूढ़धृतां कृपाणीमपि लक्षयांचकार। तदा Yf