पृष्ठम्:चोरचत्वारिंशी कथा.pdf/54

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VIR नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः । -इति व्यासवचनं स्मरन्ती सा भोजनाय महानसमगत्वा, स्वयं दृत्याङ्गनांवेशं निपुणमधारयत्। मुखमपि च्छद्ममुखेनाच्छादयत्। मध्यभागं च रजतरशनया पर्यवृणोत्। तत्र च मणिमण्डितमुष्टि कृपाणिकामासजत् । एवमात्मना संनद्धा सा, अब्दपालमादिशत्- एहि, मृदङ्गमादत्स्व । आवां यथा भूय एकाकिनमेव स्वामिनं तथाद्य सतनयातिथि तं नृतगीताभ्याँ विनोदयिष्यावः । ७. एवमाज्ञप्तोऽब्दपालः, मारजन्यानुगतः, मृदङ्गमादाय तद्वादनपरो महानसात्रिश्वकाम । विश्रामागारं च प्राप । तत्र च द्वारदेशे स्वामिनः प्रवेशानुज्ञां प्रतिपालयन्स्थितः । ८. अथालिपर्वोवाच- प्रविश रे मार्दङ्गिक । हे मारजन, दर्शय निजकौशलमतिथयेऽस्मै। येन स कौशल ते परीक्षेत-इति। ततो मायावणिजमुद्दिश्य तेन भणितम् - अस्य विनोदस्य कृते न कोऽपि धनव्ययो मया कृतः । एषोऽरमदृहदासैरेव सर्वथा संविहितः। अत्र पात्रे अब्दपालो मारजनिश्च। प्रथमो मे परिवेपक, द्वितीया च पाकशालाध्यक्षा। मन्येएतौ तव रञ्जनाय क्रमेयाताम्। ९. तदा तत्संगीतकमतर्कितोपस्थितं प्रेक्ष्य हर्षणश्चिन्तामाविशत्कथमधुना निर्वहाम्यात्मसंकल्पमू ? अथवा, कृतं चिन्तया । अद्यायं प्रयोगो मया नानुष्ठितवेत्, न तावता गरीयसीं क्षर्ति कलयामि । यतोऽहमलिपर्वपुत्रेण सार्ध समृद्धतरसौहार्दो भविष्यामि । ततश्व भविष्यत कदापि मया सिद्धप्रयोगेण भाष्यमेव। अत: किमनेन संगीतेनान्तरायेण ? प्रवर्ततां