पृष्ठम्:चोरचत्वारिंशी कथा.pdf/56

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Կ3 १५. सा प्रत्याह-। मा तावद् । मया हि न तव नाशः, किं तु तव च स्वल्कुटुम्बस्य च रक्षणमेव वििहतम्। अथ तया कुजहर्षणस्य प्रावारमपसार्य तदन्तर्गुप्तो मण्डलाग्रः स्वामिने दर्शितः । भणितं च- पश्य, नायं सुहृद्, किंतु दुईदेव, यस्त्वया भोजितः। वदनमस्य निपुण निभालय। येन त्वमेन तैलवणिजमभिज्ञास्यसि । अयमेव दस्युनायकः । भूयश्चावधारय- यथात्वद्भेहेऽनेन लवणभक्षणं यत्नतो वर्जितम् । किमत्र कारणं स्यात्? किमन्यत् ? इदमेव यल्ठुवणं चेत्त्वदीयभवने तेन खादितम्, न त्वं तेन हन्तुं युज्येथाः-इति । यदैव त्वया लवणनिवृत्त एषोऽभ्यागतो मम कथितः, तदाप्रभृत्येव तमनु जातशङ्केवाभूवम् । उक्तं हि भगवता व्यासेन--- अशिष्टाः शिष्टसंकाशाः शिष्टाश्चाशिष्टदर्शनाः । दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥ ३७ ॥ किं च तद्वदनदर्शनेन तु तत्क्षणं तमभिज्ञाय मया तर्कितम्- यदेष तवाशुभं ध्यायति—इति । तथा चोक्तम्— अाकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ३८ ॥ एवं त्वद्वधार्थिनमेनं व्यापादयन्त्या मया युक्तमेवाचरितम्--इति त्वमपि ज्ञास्यसि । तथा चेयं व्यासभणितिः-- यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिस्तथा वर्तितव्यं स धर्मः । मायाचारी मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः ॥३९॥ १६. अथालिपर्वा चिन्तयामास— इदानीमपि पूर्ववदहँ मारजन्यैव चातुर्यण दाक्ष्येण धैर्यण च मृत्युमुखान्मोचितः। अतो दासीभावान्मोचितपूर्वामेनां स्नुषापदमपि किं न लमैयेयम् ? उत्त हि